________________
ध्यानस्य कर्मक्षयकारणता ] किट्टिवेदनाद्धाधिकारः
[ ४२३ 'सेसम्मि' इत्यादि, तत्र 'क्षीणकषायस्य' क्षीणकवायगुणस्थानकाद्धाया अन्तर्मुहूर्तप्रमाणायाः 'संग्ख्यभागे' संख्येयतमभागे शेषे 'अन्तिमखण्डेन' त्रयाणां घातिकर्मणां चरमस्थितिखण्डेन 'त्रिघातिना' त्रयाणां घातिकर्मणां ज्ञानावरण-दर्शनावरणाऽन्तरायरूपाणां 'तस्य' तच्छब्दस्य पूर्ववस्तुपरामर्शित्वेनाऽनन्तरोक्तक्षीणकषायस्य परामर्शात् क्षीणकषायगुणस्थानकस्योपरितनस्थिति ध्यानेन 'हन्ति' विनाशयति । 'झाणेण' इत्यनेन कर्मक्षये हेतुरुक्तः, ध्यानमन्तरेण कर्मोन्मूलनाऽनुपपत्तेः। अत्र कर्मक्षये ध्यानस्य हेतुत्वप्रतिपादिका तत्त्वार्थवृत्त्युक्तकारिका
"प्राप्नोति परं हादं हिमातपाभ्यामिव विमुक्तम् । तेन ध्यानेन यथाख्यातेन च संयमेन घातयति ॥ शेषाणि घातिकर्माणि युगपदपरञ्जनानि ततः। कात्या॑न्मस्तकशूच्यां यथा हतायां हतो भवति तालः ।
कर्माणि क्षीयन्ते तथैव मोहे हते कात्स्न्यात् ॥” इति । तथैवोक्तं ध्यानशतके-ऽपि
जह चिरसंचियमिंधणमनलो पवणसहिओ दुयं दहइ । तह कम्मंधणममियं खणण झाणाणलो उहइ ॥१॥ जह वा घणसंघाया खणण पवणाहया विलयमिति ।
झाणपवणावहूया तह कम्मघणा विलिजति ॥२॥” इति । इदमत्र हृदयम्-संख्यातः स्थितिघातसहस्रः क्षीणकषायगुणस्थानकस्य बहुसंख्यातभागेषु गतेषु सत्सु घातिकर्मणामन्तमुहूर्तप्रमाणं चरमस्थितिखण्डं घातयन् गुणश्रेणिनिक्षेपस्य संख्येयतमभागमपि विनाशयति, ध्यानमुपगतः क्षीणकरायगुणस्थानकस्योपरितनीर्घातिकर्मणां गुणश्रेणिसंख्येयतमभागमात्रीस्ततश्च संख्येयगुणा अन्याः स्थितीश्वरमस्थितिखण्डेन घातयतीत्यर्थः । दलनिक्षेपक्रमस्तु मोहनीयचरमस्थितिखण्डवत् संभवति । त्रयाणां घातिकर्मणां चरमस्थितिखण्डे घातिते ज्ञानावरणपश्चक-दर्शनावरणषटका-ऽन्तरायपञ्चकरूप-पोडशप्रकृतीनां स्थितिसत्त्वं शेषक्षीणकषायगुणस्थनकालप्रमाणं जायते, नवरं निद्रादिकस्य समयोनं भवति । ततः परं घातिकर्मणा स्थितिघातो न भवति । तच्च वक्ष्यत्यष्टाविंशत्यधिकदिशतमगाथायाम् । शेषाणां त्रयाणामघातिकर्मणां तु भवत्येव । उक्तं च सप्ततिकाचूर्णी-“एवं खोणकसायद्याअंतोमुहुत्तपमाणमेत्ताए संखेजेसु भागेसु गतेसु संखेजइमे सेसे पंचणाणावरण-छइंसणावरण-पंचण्हमंतराइगाणं एएसिं सोलसण्हं कम्माणं ठितिसंतकम्मं सव्वोवट्टणाए उव्वहेत्तु सेसखीणकसायहासमं करेइ । तओ पभिई एयासिं ठितिघाओ फिटो, सेसाणं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org