________________
४२४ ]
aareढी
[ गाथा--२२७
1
अस्थि चैव । नवरं निद्दादुगस्स एक्केण समएण ऊणियठिर्ति ठवेइ, दलियं पडुच्च, कालो उ तुल्लो ।” इति ॥ २२६ ॥
,
ननु भवता प्रोक्तम्- ध्यानेन क्षीणकषायगुणस्थानस्योपरितनीं घातिकर्मस्थितिं विनाशयतीति । तत् किं नाम ध्यानम् ? कतिविधं च तत् ? इति चेत्, उच्यते - ध्यायते - चिन्त्यते तचमनेनेति ध्यानम्, एकाग्रचिन्तानिरोध इत्यर्थः । अग्रम् - आलम्बनम् एकं च तदग्रं चेत्येकाग्रम् । चलं चित्तमेव चिन्ता, तस्य निरोधः = एकत्र व्यवस्थापनमन्यत्राऽप्रचारः, एकाग्र = एकावलम्बने चिन्ता निरोध इत्येकाग्रचिन्तानिरोधः । एवंस्वरूपं ध्यानं चतुर्विधम्, आर्त-रौद्र-धर्म्य-शुक्लभेदात् । किन्तु द्वयोरेव धर्म्य-शुक्लाख्ययोर्निर्वाण साधनत्वेन कर्मक्षयकारणत्वम् शेषयोस्तु भवकारणत्वेन कर्मबन्धप्रयोजकता । यदुक्तं ध्यानशतके
"अहं रुद्द धम्मं सुकं झाणाइ तत्थ अंताई । निव्वाणसाहणाई भवकारणमहरुहाई ॥ १ ॥” इति ।
इह च कर्मक्षयस्याऽधिकृतत्वात् कर्मक्षयकारणलक्षणविशेषणं पुरस्कृत्य ध्यानस्य द्वैविध्यं प्रतिपिपादयिपुराह - कम्मखयकारणं झाणं दुविहं धम्मसुक भेअत्तो । एक्केक होइ चविहं णायव्वं पवयणत्तो ॥ २२७॥
,
कर्मक्षयकारणं ध्यानं द्विविधं धर्म्यशुक्लभेदात् ।
एकैकं भवति चतुर्विधं ज्ञातव्यं प्रवचनतः || २२७॥ इति पदसंस्कारः ।
'कम्म०' इत्यादि, 'कर्मक्षयकारणं' ज्ञानावरणादिकर्मविनाशनिबन्धनं 'ध्यानम् उक्तशब्दार्थं 'द्विविधं' द्विप्रकारं भवति, धर्म्यशुक्लभेदात् । तत्र धर्मात् क्षमादिलक्षणादनपेतं धर्म्यम्, “हृद्य-पद्य तुल्य-मूल्य- वश्य-पथ्य- वयस्य- धेनुष्या- गार्हपत्य जन्य-धर्म्यम्" (सिद्धहेम०७-१-११) इति निपातनाद् यप्रत्ययान्तः । शुचम् अष्टविधकर्मलक्षणां क्लमयति-लपयति-निरस्यतीति शुक्लम्, यद्वा शुक्लं-निर्मलं कर्मक्षयहेतुत्वात् । यद्वा शोधयत्यष्टप्रकारं कर्ममलमिति शुक्लम् । अथ धर्म्यस्य शुक्लस्य च ध्यानस्य चातुर्विध्यमुपवर्णयति- 'एक्केक' इत्यादि, 'एकैकं धर्म्यं शुक्लं च प्रत्येकं पुनः 'चतुर्विधं' चतुष्प्रकारं भवति, 'ज्ञातव्यं तच्च बोध्यं 'प्रवचनतः' जिनेन्द्रप्रणीताऽऽगमतः, न विस्तरेण प्रदर्श्यत इति भावः ।
अथ ध्यानद्वयस्य किञ्चित् स्वरूपं वर्ण्यते, अन्यथा मन्दबुद्धिजनानां तद्विषयकबोधो न स्यात् । तत्राद्यं धर्म्यध्यानं चतुर्विधमाज्ञाविचया - ऽपायविचय-विपाकविचय-संस्थानविचयभेदात् ।
Jain Education International
तत्रादौ तावद् आज्ञाविचयः - कुशलकर्माण्याज्ञाप्यन्ते प्राणिनोऽनयेत्याज्ञा सर्वज्ञ प्रणीतागम इत्यर्थः, तस्या विचयः=पर्यालोचनमित्याज्ञाविचयः । तथाहि - केवलालोकेन विनाशिता - शेषसंशय
For Private & Personal Use Only
www.jainelibrary.org