________________
आज्ञाविचयाख्यमपायविचयाख्यञ्च धर्मध्यानम् ] अपगतकषायाद्धाधिकारः
[ ४२५ तिमिराणां तीर्थकृतां सुनिपुणां सूक्ष्मद्रव्याधुपदर्शकत्वाद् मत्यादिप्रतिपादकत्वाच्च, द्रव्यादेशापेक्षयाऽ-नाद्यपर्यवसितां, सर्वजीवनिकायहिताम् , अनेकान्तपरिच्छेदात्मिका, महायां सर्वोत्तमत्वाद्, अपरिमिताम् एकसूत्रस्याऽनन्तार्थकत्वाद् , अजितां परप्रवचनैरपराजितत्वाद् , महार्थों पूर्वापराविरोधित्वादनुयोगद्वारात्मकत्वान्नयगर्भत्वाच्च, महानुभावां चतुर्दशपूर्वविदां सर्वलब्धिसम्पन्नत्वात् प्रभूत्कार्यकरणाच्च, महाविषयां सकलद्रव्यादिविषयत्वाद् , अकुशलजनदुर्जेयां नैगमादिनय-भङ्गप्रमाण-गमगहनामात्रां चिन्तयेत् । यः पुनर्ज्ञानावरणोदयेन मतिदौर्बल्यात् तथाविधाचार्याभावाद् वा ज्ञेयगहनत्वाद्वोपयुक्तोऽपि दुरविगम्यां भगवदाज्ञां ना-ऽवयुध्यते, सोऽपीत्थं ध्यायेत्--परैरनुपकृतेऽपि धर्मोपदेशादिना परानुग्रहोयुक्तानां जितरागदोषाणामपितथवादिनां भगवतां तीर्थकृतां वचनमघितथमेव, रागद्वेषाऽभावेनवितथकारणाऽनुपलम्भादिति । उक्तं च ध्यानशतके
“सुनिउणमणाइनिहणं भूयहियं भूयभावणमहग्छ । अमियमजियं महत्थं महाणुभावं महाविसयं ॥१॥ झाइजा निरवजं जिणाणमाणं जगप्पईवाणं। अणिउणजणदुण्णेयं नय-भंग-पमाण-गमगहणं ॥२॥ तत्थ य मइदोब्बलेण तविहायरियविरहओ वा वि । णेयगहणत्तणेण य णाणावरणोदएणं च ॥३॥ हेऊदाहरणासंभवे य सइ सुटु जं न बुज्झेजा। सव्वण्णुमयमवितहं तहावि तं चिंतए मइमं ॥४॥ अणुवकयपराणुग्गहपरायणा जं जिणा जगप्पवरा ।
जियरागदोसमोहा य णण्णहावादिणो तेणं ॥५॥” इति । अथ द्वितीयमपायविचयाख्यं धर्मध्यानमुच्यते-अपायाः विपदः शारीरमानसानि दुःखानीत्येकार्थाः, तेषां विचयः-चिन्तनम् । तथाहि-इह खलु जन्मजरामरणसंव्याप्तसंसारसागरे सांसारिकसुखेष्ववितृप्तचेतसः सचा रागद्व षकषायाऽऽश्रवादिषु प्रवर्तन्ते, ते च नरकादिगतिषु चक्रम्यन्ते । केचित् पुनरिहैत्र कृतवैरानुबन्धाः परस्परमाक्रोशवधायपायभाजो दृश्यन्ते क्लिश्यन्ते चेत्यादि भवचक्र भ्रमतां जन्तूनामिहलोकपरलोकापायाँश्चिन्तयतो-ऽपायविचयाख्यधर्मध्यानं भवति । उक्तंच ध्यानशतके
"रागबोसकसायाऽऽसवादिकिरियासु वट्टमाणाणं ।
इह-परलोयावाए झाइजा वजपरिवजी ॥१॥” तथा चात्र श्रीकलिकालकल्पतरुकल्पानां श्रीमद्हरिभद्रसूरीश्वराणां तट्टीका“रागद्वेषकषायाऽऽश्रवादिक्रियासु प्रवर्तमानानामिहपरलोकापायान् ध्यायेत् ,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org