________________
तद्धितं
१८३
कतिपयात्कतेच पूरणेऽर्थे थो भवति डे परे । कतिपयानां पूरणः कतिपयथः । कतीनां पूरणः कतिथः । कतिपयथ । कतिथी । कतिपयथं । कतिथं ।
विंशत्यादेस्तमद् ||५१६ ॥
विंशत्यादेस्तमट् प्रत्ययो भवति पूरणेऽर्थे। विंशतितमः । विशतेः पूरणी विशतितमी । विंशतितमं । त्रिंशतः पूरण: त्रिंशत्तमः । त्रिंशत्तमी । त्रिंशत्तमं । चत्वारिंशत्तमः । पंचाशत्तमः । उत्तरत्र नित्यग्रहणादिह विकल्पो लभ्यते । उत्तरत्र नित्यग्रहणं क्वास्ते ? नित्यं शतादेरित्यत्र यत्र संख्या विद्यते तत्र विकल्पेन तमद् भवति ।
तेर्विंशतेरपि ॥५१७ ॥
विंशतेरपि तेर्लोपो भवति डानुबन्धे प्रत्यये परे । अपिशब्दात् अस्य लोपो भवति । विशः । त्रिंश: । चत्वारिंशः । पञ्चाश: ।
नित्यं शतादेः ॥५१८ |
शतादेर्गणात् पूरणेऽर्थे नित्यं तमट् प्रत्ययो भवति । एकशतस्य पूरण एकशततमः । एकशततमी । एकशततमं । एकसहस्रस्य पूरण एकसहस्रतमः । एकसहस्रतमी । एकसहस्त्रतमं । एककोटितमः । षष्ट्याद्यतत्परात् ।।५१९ ॥
षष्ट्यादेरसंख्यायाः परात् पूरणेऽर्थे नित्यं तमट् भवति । षष्टेः पूरणः षष्टितमः । षष्टेः पूरणी षष्टितमी । षष्टितमं । सप्ततितमः । अशीतितमः । नवतितमः । अतत्परादिति किं ? एकषष्टेः पूरण एकषष्टः । एकषष्टितमः । यत्र संख्या विद्यते तत्र विकल्पेन तमट् प्रत्ययो भवति
कतिपयानां पूरणः = कतिपयथः कतीनां पूरणः कतिथः बना ।
=
विशति आदि से पूरण अर्थ में 'तमद्' प्रत्यय होता है ॥५१६ ॥
विंशते: पूरण : विंशति + ङस् तम, विभक्ति का लोप होकर पूर्वोक्त सारी विधि से विंशतितमः विंशतितमी, विंशतितमं । ऐसे ही त्रिंशतः पूरण: त्रिंशत् + डस् तम, पूर्वोक्त विधि से त्रिंशत्तमः त्रिंशत्तमी, त्रिंशतमं बना। आगे चत्वारिंशत्तमः पञ्चाशत्तमः इत्यादि । आगे नित्य शब्द ग्रहण किया गया है अतः यहाँ विकल्प समझना | आगे 'नित्य' शब्द किस सूत्र में है "नित्यं शतादेः " इस ५१८वें सूत्र में है । जहाँ संख्या है वहाँ विकल्प से तमद् प्रत्यय होता है।
अनुबंध प्रत्यय के आने पर विशति के 'ति' का लोप हो जाता है ॥ ५१७ ॥
अपि शब्द से शकार के अकार का भी लोप हो जाता है। अतः विंश रहा, लिंग संज्ञा के बाद सि विभक्ति में 'विंश:' बना। ऐसे ही त्रिंशः, चत्वारिंशः, पञ्चाशः इत्यादि ।
शतादि गण से पूरण अर्थ में नियम से 'तमद्' प्रत्यय होता है ॥५१८ ॥ एकशतस्य पूरण: = एकशततमः एकशततमी, एकशततमं एकसहस्रस्य पूरण: एकसहस्रतमः
एककोटितम इत्यादि ।
षष्टि आदि असंख्या से परे पूरण अर्थ में नित्य ही तमट् प्रत्यय होता है ॥५१९ ॥
षष्टेः पूरण: = षष्टितमः षष्टितमी षष्टितमं सप्ततितमः अशीतितमः नवतितमः । सूत्र में अतत्पर - संख्या से परे न हो ऐसा क्यों कहा ? एकषष्टेः पूरण: = एकषष्टितम: और 'ड' प्रत्यय से एकषष्टः भी बन गया। मतलब जहाँ संख्या है वहाँ विकल्प से तमट् प्रत्यय होता है ।