Book Title: Jinkrupachandrasurishwar Charitram
Author(s): Jaysagarsuri
Publisher: Jaysagarsuri
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
श्रीजिन
कृपाचन्द्रसूरचरित्रम् ॥ ८५ ॥
*%* অ%
www.kobatirth.org.
सन्तारय नः प्रपन्नान् ।। ६२ ।। इत्थं स्तुवन्तो गुरुराजमेनं, हृष्टाः समग्राः सुजना उपेताः । आप्तप्रबोधा गुरुराजरक्ता, निजं निजं वासमुपाययुस्ते ।। ६३ ।। (त्रिभिर्विशेषकम् ) अन्येद्युराचार्यवरो महीयांस्तत्रत्यदुर्गोपरि चारुरोह । चतुर्विधैः संघजनैः समेतो, जिनेशयात्राकृतये सहर्षः ॥ ६४ ॥ अष्टौ बसाः परिपन्ति तत्र पुर्यामधस्तादपि रम्यमेकम् । विशालचैत्यं गगनावलेहि, सुपार्श्वनाथीयमपूर्वमस्ति ।। ६५ ॥ एतच लोका नवमीं सुरम्यां, जल्पन्ति सर्वे वसही मिहत्याः दुर्गोपरिस्थाssदिमस सह्यां श्रीशले यो भगवान् विभाति ।। ६६ ।। श्रीआदिनाथो बसहीं द्वितीयां, श्रीमान् सदाऽलङ्कुरुते जिनेशः । चन्द्रप्रभाख्यो भगवांस्तृतीयां, तुर्यां तथाऽष्टापद एवं नित्यम् ॥ ६७ ॥ तां पञ्चमीं सम्भवनाथनामा, विभ्राजते शीतलनाथविम्बम् । पड्यां वसह्यां सदभीष्टदोहि चिन्तामणि श्री प्रभुपार्श्वनाथः ॥ ६८ ॥ विद्योतते सप्तमसद्वसयां, सीमन्धराऽदिर्जिनविंशतिश्च । तदन्तिमायां विचकास्ति नित्यं सुपार्श्वनाथो नवमाऽभिधायाम् ॥ ६९ ॥ सन्त्यष्टरन्ध्रप्रमितानि तत्र सद्गेहचैत्यान्यपराणि तेषु । सर्वेषु गत्वा जिनराजविम्बं व्यलोकत श्रीगुरुराज एषः ॥ ७० ॥ अस्ति द्वितीया वसही द्विभूमि- स्तृतीयिका सात्रिधरान्ती । शेषा वसाः परिपन्ति तत्रै-कभूमिका रम्यतरा महत्यः ॥ ७१ ॥ वेण्डाऽऽदिनानाविधवाद्यनादैः, सुश्राविकाणां कलगीतनादैः । विधाय यात्रां परया सुभक्त्या, ससंघ एषोऽधिजगाम वासम् ।। ७२ ।। कियद्दिनाऽनन्तरमेष तस्माद्, गव्यूतिदूरे दिशि चोत्तरस्याम् । तटाक एकोऽमरसागराऽऽख्यः, प्राच्यां प्रतीच्यां दिशि सन्ति तस्मात् ॥ ७३ ॥ भव्यत्रिचैत्यानि महान्ति भान्ति, श्रीमद्गुरूणामतिमज्जुलानि । श्रीप्येव सद्मानि महत्तराणि, छुपाश्रयाणां त्रितयी विशाला ॥ ७४ ॥ (तोटकम् ) -- वनखण्डमनेकमिहाऽस्ति बृहत् सकलाऽऽर्तवसौख्य- विशेषददम् । अखिलाऽऽगत यात्रिकचित्तहरं, बहुधा
?
For Private And Personal Use Only
Acharya Shri Kallassagarsuri Gyanmandir
चतुर्थः सर्गः ।
॥ ८५ ॥

Page Navigation
1 ... 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144