Book Title: Jinkrupachandrasurishwar Charitram
Author(s): Jaysagarsuri
Publisher: Jaysagarsuri
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
श्रीजिनकृपाचन्द्र
सूरिचरित्रम् ॥११७॥
www.kobatirth.org
प्रसिद्धसंवत्सरकद्वये ते ॥ २८२ ॥ अहम्मदावादपुरे न्यवात्सु स्तदा चतुर्मासविधित्सया वै । संधाग्रहाच्छीजिनपूजनादौ, प्रावीवृतन् सर्वजनान् मुनीशाः ॥ ३८३ || ( युग्मम् ) अत्रान्तरे भारतवर्षवर्य - श्रीमालवाख्यापरिभूषितस्य । राष्ट्रस्य लक्ष्म्याः सुललामतुल्या, वास्तव्यवर्ण्या रतलामपुर्याः ॥ ३८४ ॥ श्रीश्रेष्ठिनी फूलकुमार्यभिख्या, श्रीपादलिप्ताख्यपुरप्रतिष्ठे । स्वकारिते वै भुवने हि चान्द्रे, ऐच्छनिवासाय मुनीश्वराणाम् || ३८५ || अहम्मदाबादपुरे ततो हि, जन्नाण्युपाहुं मुनिमं स्वकीयम् । श्रीचान्दमलाभिघमर्थनार्थं, प्रासादसाफल्यकृते तु प्रैषीत् ।। ३८६ ।। तथैव सर्वोऽपि पथि व्ययश्च, श्रीपादलिप्ताख्यपुराऽवधिकः । अहम्मदावादपुराद्धि यः स्यात्, तथैव दातुं प्रतिस्वीकृतः सः ॥ ३८७ ॥ ( अर्थतः चतुर्भिः कलापकम् ) आचार्यवर्यस्य तनुस्तदानीं, रोगाऽभिभूता क्षयिणी सदाऽऽसीत् । किञ्च स्विकां वृद्धतमामवस्थां निर्वाणकालं सविधे च ज्ञात्वा ॥ ३८८ ॥ श्रीसिद्धक्षेत्राख्यपवित्रतीर्थं, तनोस्तनोस्त्यागविधित्सया वै । स्वजन्मसाफल्यचिकीर्षया ते, तत्प्रार्थनां स्वीकृतवन्त ईशाः ॥ ३८९ ॥ ( युग्मम् ) तथा च तुर्य-ग्रे-नन्द-चन्द्रे, संवत्सरे पौषसिते च पक्षे । त्रयोदशी- शुक्र दिने व्यहार्षु-रहम्मदाबादपुरान्मुनीशाः || ३९० || तस्मान्निरीयात्मविदामधीशा- स्वस्मिन् हि मासोत्तममाघमासे । शुक्लद्वितीया-बुधवासरे च, श्रीपादलिप्ताख्य पुरेऽगमंस्ते ।। ३९१ ॥ श्रीसंघमुख्यैर्विविधैर्महैश्च बाधैर्विचित्रैस्सह हर्षपूर्वम् । पुर्यां प्रवेशः शुभभावभव्यैः, सूरीश्वराणां हि कृतस्तदानीम् || ३९२ || श्रीपादलिप्ताऽऽगमनस्य पश्चा-दाचार्यवर्यस्य तनुस्तनुत्वम् । रोगादितत्वादतिरुग्णतायाः, स्वरूपमापद् वमनष्यथाभिः ॥ ३९३ ॥ वर्षे हि तुर्य-प्रहें-नन्द-चन्द्रे, शुक्के च पक्षे शुभमाघमासे । एकादशीपुण्यदिने वरेण्ये, बृहस्पतौ साऽभिजितीडथलमे ॥ ३९४ ॥ तथैव सम्यम्मृगशीर्षधिष्ण्ये, समाधियुक्ताः शुभ
For Private And Personal Use Only
Acharya Shri Kallassagarsuri Gyanmandir
GIR
पश्चम सर्गः ।
॥११७॥

Page Navigation
1 ... 133 134 135 136 137 138 139 140 141 142 143 144