Book Title: Jinkrupachandrasurishwar Charitram
Author(s): Jaysagarsuri
Publisher: Jaysagarsuri

View full book text
Previous | Next

Page 134
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org गत्वा, तां प्रार्थनां संघकृतां च भव्यः । सुरीश्वराणां चरणौ प्रणम्य, न्यवेदयत् पत्रमसौ सहर्षम् ॥ ३७२ ॥ तत्प्रार्थनां भावयुतां विदित्वा श्रीसूरिशिष्यो जयसागराख्यः । आचार्यवर्याऽनुमतिं गृहीत्वा संघाऽर्थनास्वीकृतिमन्वमंस्त ।। ३७३ | भट्टारकाऽङ्गीकृतमर्थनं ते श्रुत्वा सहर्षं पुरसंघमुख्याः । गुरूत्तमानां वरसत्कृतार्थ, सज्जाः समासन् समसाधनौधैः ॥ ३७४ ॥ द्वि-नन्द-नन्दैक मिते (१९९२) हिते ते, श्रीवैक्रमीये शुभवत्सरे वे । मासोत्तमे श्रीशुभफाल्गुनाऽऽहे, पक्षे सिते पञ्चमिते तिथौ हि ।। ३७५ ॥ बृहस्पतेर्वासरसौम्यलग्ने, श्रीपादलिप्ताख्यपुरात् प्रयाणम्। आचार्यवर्या जिनधर्मधुर्याः, कृपादिचन्द्राऽभिधसूरि सूर्याः ॥ ३७६ ॥ श्रीजङ्गमादियुगयुक्प्रधाना, भट्टारकादिपदवीप्रसिद्धाः । शिष्यैः प्रशिष्यैः सह विज्ञवर्यैस्तदा व्यहार्षुर्वरसाधुवर्याः ॥ ३७७ ॥ ( त्रिभिर्विशेषकम् ) तत्रैव चैत्रस्य शुभाऽज्यपक्षे, चन्द्रे तिथ पञ्चमिते सुलग्ने । वाद्येषु चित्रेषु हि वाद्यमानेष्वहम्मदाबादपुरेऽविशंस्ते ॥ ३७८ ॥ ( शार्दूलविक्रीडितम् ) – तस्मि व दिने पुरे समभवत् पूजाप्रभृत्युत्सवो, नालीकेरफलप्रभावनविधिश्रीसंघसस्कारितः । अस्मिन् श्रीमुनिराजसत्कृतिविधौ वैहारिकोऽर्थव्ययो जातस्तं समपूरयत् खरतरश्रीसंघ उत्साहितः || ३७९ ।। तस्मिन् गुर्जरराष्ट्र - राजनगरे श्रीमद्धहैर्मण्डिते, श्रीमच्छ्रीमणिकारपाटकपटी कोष्टारिकाणां पथि । संधैः सत्कृतिपूर्वकं खरतर श्रीजैनम्पाश्रये, श्रीमजैन मतैकसूरिधुरिणां भव्यः प्रवेशः कुतः || ३८० ॥ श्रीमत्पूज्यमुनीशितुर्जिन कृपाचन्द्रा रूपसूरेस्तदा, रोगाऽऽविष्टतनोर्व्ययः समभवद् भैषज्यकार्यादिके । रौप्याणां प्रतिमास मेकशतकं तत्सरिसेवाकृते, सर्वस्तैः परिपूरितः खरतरैर्गच्छीयसंधैर्मुदा ।। ३८१ ।। ( उपजातिवृत्तम् ) – द्वि-नन्दे - नन्दैकमिते वरेण्ये, श्रीविक्रमार्केन्द्रविनिर्मितेऽस्मिन् । तथैव वह्नि -ग्रह- नन्द- चन्द्रे, For Private And Personal Use Only Acharya Shri Kallassagarsuri Gyanmandir

Loading...

Page Navigation
1 ... 132 133 134 135 136 137 138 139 140 141 142 143 144