Book Title: Jinkrupachandrasurishwar Charitram
Author(s): Jaysagarsuri
Publisher: Jaysagarsuri
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
श्रीजिनकृषाचन्द्र
वर
चरित्रम्
११६ ।।
www.kobatirth.org
सागरस्वरिरिति शुभनाम तदीयम् । प्रथयामास च सकले, श्रीसंघे जिनकृपाचन्द्रसूरिः || ३६१ || ( षद्भिः कुलकम् )
( उपजातिः ) - दीक्षा च लघ्वी समभूदमुष्य, सत्पत्तने जेसलमेरसंज्ञे । पद् पश्च-नन्देन्दुमिते च वर्षे माघेस नागतिथौ सुवारे ।। ३६२ ।। गुर्वी च साऽभूद् इय-बाण-नन्द-भूत्सरे कार्तिकपूर्णिमायाम् । अङ्गा-श्व-रेन्द्र-क्षितिसंख्यवर्षे, सत्पत्तने सूर्यपुरे तपस्ये ।। ३६३ ।। शुभे मुहूर्ते ददिवानुपाध्यायेत्येतदस्मै पदमाग्रहेण । सिद्धाचले खा-ऽ- नवेकबर्षे, ह्यागृह्य चाचार्यपदं व्यतारीत् ॥ ३६४ ॥ वर्षात्परं श्रीजिन कीर्तिसूरिः, क्षान्त्यादिसाद्गुण्यमुपेयिवन्तम् । गच्छाधिपत्ये विनियुज्य नैजे, पट्टे तमेनं समतिष्ठिपश्च ।। ३६५ ॥ इत्थं व्यवस्थाप्य समस्तकृत्य- मिष्टस्मृतिध्यानपरायणोऽसौ । समाधिलीनो घुतसर्वपापः स देवतामूर्तिरिव व्यभासीत् ।। ३६६ ।।
( शार्दूलविक्रीडितम् ) -- एतस्मिन् समये बृहत्खरतरैर्गच्छाग्रणीश्रेष्ठिभिः, श्रीमन्मान्य युगाग्रणीजिनकृपाचन्द्राख्यसूरीश्वरम् । आनेतुं नगरेब्धराजनगरे शिष्यैः प्रशिष्यैः समं श्रीसिद्धाचलतः सुसिद्धपुरुषं संघाग्रहान्मन्त्रितम् ॥ ३६७ ॥
( उपजाति: ) कोष्ठारिकः श्रीमणिलालनामा, श्रेष्ठीश्वरो मोहनलालपुत्रः । तथा धनी मङ्गलदास ईब्यो, डाह्यादिभाईसुतसुप्रसिद्धः || ३६८ || भाण्डारिमुख्यो धनिचन्दुलालः, श्रेष्ठ्यग्रणीर्मोहनलालपुत्रः । माणिक्यलालेति शुभाभिधानः, श्रीकालिदासाख्यतनूभवो वै ।। ३६९ ।। इत्यादिमुख्यैः पुरसंघमान्यै-रहम्मदावादनिवासिभिश्च । धर्म्यग्रणीथाबकवर्यवर्गा-ग्रहैर्गुरोरागमकाङ्क्षिभिर्वै ॥ ३७० ॥ हस्ताक्षरैः सार्धमनेकसंख्यैः, पत्रं लिखित्वा शुभभावपूर्वम् । सूरीश्वराणां सविधे स्वकीयः प्रेष्यो जनः प्रेषित आप्त इभ्यः ॥ ३७१ ॥ ( चतुर्भिः कलापकम् ) श्रीपादलिप्शाख्यपुरं स
"
For Private And Personal Use Only
Acharya Shri Kallassagarsuri Gyanmandir
पश्मः सर्गः ।
॥ ११६ ॥

Page Navigation
1 ... 131 132 133 134 135 136 137 138 139 140 141 142 143 144