Book Title: Jinkrupachandrasurishwar Charitram
Author(s): Jaysagarsuri
Publisher: Jaysagarsuri
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
भीजिनकपाचन्द्रसूरि
चरित्रम्
॥११९॥
www.kobatirth.org.
ख- गज-नव-शशाङ्के वत्सरे मालवीये, दशपुरनगरेऽसौ प्रार्थितः सर्वसंधैः । अलमकृत- चतुर्मासीं कषायप्रमुक्तः, कुमतिचयगजानामङ्कुशः सप्रभावः ॥ ४३१ ।। उदयपुरसमा पत्तनेऽतिप्रसिद्धे, शशि-वसु-नव-- चन्द्रे होयेंने मेदपाटे । जगदुपकृतिकारी कीर्तिधारी सुतारी, स्थितिमकृत चतुर्मास्यां महाडम्बरेण ॥ ४३२ ॥ ( उपजातिः ) – बालोतराख्ये नगरे मरुस्थे, दलाऽष्ट--नन्दैकमिते 'व' वर्षे । चक्रे चतुर्मासिकसन्निवास, लाभो महांस्तत्र बभूव तेन ।। ४३३ ।। त्र्यष्टाऽभूमी मितवत्सरेऽसौ, देशे मरौ जेसलमेरुदुर्गे । तस्थौ च मासांश्चतुरथ सर्वाऽतिप्रार्थनैष महोपकृत्यै || ४३४|| स तस्थिवान् वेद-गजा भूमी-प्रमा वर्षे फलवर्द्धिपुर्याम् | मरौ च देशे प्रचुराग्रहेण ततान वीरप्रभुशासनं च ।। ४३५ ॥ शराऽद्रि-नन्देन्दुमिते 'चें वर्ष, सविक्रमे तत्र पुरे पुरे हि । अत्याग्रहात् तत्स्थमहाजनानां प्रावृष्यवात्सीजन कीर्तिसूरिः || ४३६|| पट-कमिते पुनः स, तुरङ्ग वस्वे - महीमिताऽब्दे । व्यत्यैत् पयोदाऽऽगमकालमेष, तत्रैव पुर्यां सह शिष्यवर्गः ॥ ४३७ ॥ वस्वष्ट - नन्देन्दुमिते च वर्षे, नवाऽष्ट-रन्कमिते 'व' वर्षे व्योमाऽङ्क-नन्द--क्षिति- सम्मितेऽब्दे, स पादलिप्ते नगरे यतिष्ठत् ।। ४३८ ।।
( वंशस्थवृत्तम् ) - तथैव चन्द्र-ग्रे-नन्द-भूमिते स वैक्रमीये शुभवत्सरान्तरे । शत्रुञ्जयाऽलङ्कतपादलिप्तके, पुरे चतुर्मासविधिं व्यधादसौ ।। ४३९ ॥ द्वि-नन्द-नन्दैकमिते च वत्सरे, तथाऽग्नि-नन्द-ग्रह-भूमितेऽब्द के । अहम्मदाबादपुरे पुरोत्तमेऽवसँश्चतुर्मासमिमे मुनीश्वराः || ४४० ॥ ( उपजातिः ) अथोत्तमाचार्यवराः स्वकीयं, निर्वाणकालं सविधे विदित्वा । आदशपादाश्चितसिद्धशैले, तनोस्तनोस्त्यागविधातुकामाः || ४४१ || अहम्मदाबादपुराद् विहृत्य, शिष्यैः प्रशिष्यैः सह सूरिर्याः । श्रीपादलिप्ताख्यपुरे पुराणे, पुण्यौघपुष्पा पुनरागमँस्ते ।। ४४२ ॥ ( युग्मम् ) तत्राऽब्धि - नन्द-ग्रह - भूमितेऽब्दे,
For Private And Personal Use Only
Acharya Shri Kallassagarsuri Gyanmandir
पश्चमः सर्गः ।
॥११९

Page Navigation
1 ... 137 138 139 140 141 142 143 144