Book Title: Jinkrupachandrasurishwar Charitram
Author(s): Jaysagarsuri
Publisher: Jaysagarsuri
View full book text
________________
SinMahavir.jan AradhanaKendra
www.kobatirtm.org
Acharys St Kalassagan Gyanmandi
सिद्धयः कीर्तिमन्तः, श्रीमल्लावण्यशीलप्रमुखगुरुवराः शासनाऽम्भोजसूर्याः । गीतार्थाऽज्या गरिष्ठा विषुधजनयुताः कीर्तयः सत्तपस्याः, येषां कीर्तिध सिद्धिः स्फुरति बहुतरा चाऽधुनाऽप्युल्लसन्ती ॥ ९॥ (शार्दूलविक्रीडितम्)-स्पर्शात् पाणिसरोरुहस्य भुवने येषां बभूवुर्भुवं, मूर्खाः पण्डितसत्तमा मतिमतामय्या यशाश्रीश्रिताः । नानाशाखविचारणे पटुतरा मुक्ताः कपायैः समै-योगीन्द्रा गतकल्मपाः सुभविनां सद्बोधिवीजप्रदाः ॥१०॥ (उपेन्द्रवत्रा)-अभृत्तदन्तेसदनन्तकीर्तिः, प्रतापसौभाग्यगणी महीयान् । दक्षः समस्तेष्वयमागमेषु, जितेन्द्रियग्राम उदारवक्ता ॥ ११ ।। (मालिनी)-अभययुतविशालाऽऽख्यानभाक् सद्गुणी स, समभवदतुलर्द्धिवाऽऽद्य-शिष्यस्तदीयः । विपयिगणविजेताऽऽजन्मसच्छीलपाली, परिणुतगुणराशिः सर्वशास्त्रप्रवीणः ॥ १२॥ (इन्द्रवजा)-शिष्यो द्वितीयो गणभृद् बभूवान् , विशालपश्चात्सुमतिः सुधीमान् । तृतीयशिष्यः स हि दानपूर्व-विशालनामा गणधारिवर्यः ॥ १३ ॥ विशालपश्चात्सुमतेगणेशः, समुद्रसोमो गणभृत् सुशिष्यः । अजायतोष समस्तविक्ष-प्रख्यातिमापच तपोभिरुनेः॥ १४॥ युक्त्यादिभागस्य बभूव शिष्यो-मृताऽभिधानः क्षितिसत्प्रतिष्ठः । गणी सुवाग्मी बहुशास्त्रवेचा, गीतार्थमुख्यो भुवि सूरिराजः ।। १५ ।। (वसन्ततिलका)-श्रीमानुदारमहिमा रबिचण्डधामा, कारुण्यवारिपरिपूर्णतरः प्रकूपः । विद्याचणः स हि कृपायुतचन्द्रमरि-स्तच्छिष्यतामुपययौ गुणरत्नमालः ॥१६॥
(इन्द्रवा)-ज्यायानभूदस्य समस्तविद्या-बार्द्धिः सुशिष्यो बहुभाग्यशाली । आनन्दनामा विबुधाऽग्रगण्यः, स्वल्पेऽपि काले सुरलोकवासी ॥ १७॥ शिष्योऽपरः श्रीजिनयुगजयाब्धि-सूरीश्वरो भूरिमनोज्ञवृत्तः । श्रीमद्गुरूणां चरितं युदारं, धियाऽतियत्नाद् रचयांचकार ॥ १८ ।। श्रीमद्गुरोः पादसरोजभृङ्गो, यथाश्रुतं सर्वचरित्रमेतत् । अमत्सराणां सुधियां प्रमोद
For Private And Personal use only

Page Navigation
1 ... 140 141 142 143 144