Book Title: Jinkrupachandrasurishwar Charitram
Author(s): Jaysagarsuri
Publisher: Jaysagarsuri

View full book text
Previous | Next

Page 141
________________ Shri Mahavir Jain Aradhana Kendra श्रीजिनकृपाचन्द्र सूरि चरित्रम् ॥१२०॥ www.kobatirth.org प्रशस्तिः । ( इन्द्रव) — श्रीमच्चतुर्विंशतिसजिनेन्द्राः, संसारवार्द्धस्तरितुं सुपोताः । जयन्ति शश्वद् भवभीतिवाराः, पोपूजिताऽशेपजनक्रमाब्जाः ॥ १ ॥ ( पृथ्वीच्छन्दः ) – चतुर्दशशतीमलं गणभृतां द्विपञ्चाशता - अधिकामनिशमादराद् भवकदम्बनाशाय वै । तथा नवपदीमहं नियतसर्वशर्मप्रदां स्मरामि हृदि संततं सकलविशविच्छित्तये ॥ २ ॥ ( उपेन्द्रवज्रा ) - नखप्रमाणानि सदैव भक्त्या स्थानानि वन्दे सकलार्थसिद्धये । तीर्थङ्करीयाऽखिलनामगोत्रा ऽनुभावकानीह महाफलानि ॥ ३ ॥ ( गीतिः ) — निर्ग्रन्थ - कौटिक - चन्द्र- वनवासि मुविहितगच्छ-सुविहितपक्षः । सुविहितपरम्पराकः, खरतर - राजगच्छभाणगच्छकादिः ॥ ४ ॥ ( उपजाति: ) - गच्छान् पवित्रान् विशदान्नमामि, पापौघविद्रावणसंविधातृन् । श्रीमत्सुधर्माऽन्वविसद्गुरूंस्ता - नक्षय्यसौख्याय शिवाय सर्वान् ॥ ५ ॥ ( स्रग्धरा ) - श्री पूज्याः कीर्तिरत्नाऽभिधवरगुरवः संबभूवुर्महिष्ठाः, सर्वाऽऽशाव्यासचन्द्राऽधिकरुचियशसा सच्चरित्रा गरिष्ठाः । प्राप्ताऽनन्तप्रतिष्ठा निज-परसमयज्ञानदाक्षिण्यवन्तः, चन्द्राऽऽख्यस्फारगच्छाऽम्बुजवनदिनपा निर्जिताऽऽत्माऽरिवर्गाः ॥ ६ ॥ ( शार्दूलविक्रीडितम् ) – यत्पादोदकसेचनेन भविनां तीव्रज्वरादिव्यथा, सद्यो नश्यति वर्गृधीति सदने कान्ताहरेर्नित्यशः । यद्ध्यानादधुनाऽपि भूरिमनुजा गच्छन्ति सिद्धिं परां तेऽमी पूज्यतमा दिशन्तु जयिनो नो धीविवृद्धिं सदा ॥ ७ ॥ ( इन्द्रवज्रा ) - तत्पट्टमे बुदितो दिनेशो व्यबोधयद् भव्यसरोरुहाणि | युगप्रधानो गुरुचन्द्रकीर्ति - रत्नाभिधानः प्रभया महत्या ॥ ८ ॥ ( स्रग्धरा ) - तद्गच्छे संबभूवुर्जगति बहुमहा For Private And Personal Use Only Acharya Shri Kallassagarsuri Gyanmandir प्रशस्तिः 1122011

Loading...

Page Navigation
1 ... 139 140 141 142 143 144