Book Title: Jinkrupachandrasurishwar Charitram
Author(s): Jaysagarsuri
Publisher: Jaysagarsuri

View full book text
Previous | Next

Page 109
________________ Shri Mahavir Jain Aradhana Kendra श्रीजिनकृपाचन्द्र सूरिचरित्रम् ॥१०४॥ www.kobatirth.org स्तत्र गिरा महत्या, पुत्रः कलत्रं कमलातुलेयम् । सन्मित्र - भृत्याऽऽदिकवस्तुमात्रं विनाशि नित्यः खलु धर्म एव ॥ ६१ ॥ स एव धीरैः परिवणीयः शश्वत्सुखेच्छा वरिवर्ति येषाम् । इत्याद्युपादिश्य ततो विहृत्य, चीलाऽभिधं जकसनमाजगाम ।। ६२ ।। स्थित्वा च तत्रैकसरायगेहे, चैकां निशां सूरिवरः प्रभाते । ततश्चलित्वा समुपाययौ स लायेतिनाम्ना प्रथितं पुरं वै ।। ६३ ।। तत्राऽस्ति चैत्यं रमणीयमेकं खुपाश्रयोऽप्यत्र वरीवृतीति । दृष्ट्वा जिनेशं स उपाश्रये - तिष्ठत्सशिष्यो महतोरसवेन ॥ ६४ ॥ महोपदेशैः प्रतिबोध्य लोकान् कृत्वा विहारं स हि गोगलावम् । आनश्च लोकैरतिसत्कृतः सन्नुपादिशच्चाऽऽतशुद्धधर्मम् ॥ ६५ ॥ ततो विहारं प्रविधाय सूरिः, समागम नागपुरं प्रसिद्धम् । राठोरखंशाऽमरसिंहभूप-सद्राजधानी महती पुराऽस्ति ॥ ६६ ॥ सर्वर्तुसौख्यं जनयन्महच, सद्धर्मनिष्ठाः पुरुषा अनेके । बभूवुरस्मिन्नतिकीर्तिमन्तो, महारमपुम्पादरजः पवित्रम् ।। ६७ ।। जैनानि रम्याणि सुमन्दिराणि सन्त्यत्र सद्मान्यपि सद्गुरूणाम् । सत्कूप वापी- सरसीतटाकैः, शोशुभ्यमानं नगरं किलैतत् ।। ६८ ।। महर्द्धिकश्रेष्ठिकदम्बवासं, दुर्गाऽधिकाऽसीम- विशालभासम् । लक्षेशकोटीशमहेभ्यकानां सौधश्रिया भात्यमरावतीव ।। ६९ ।। चतुष्पथैर्वेदमितैश्च रम्यं द्वाराणि चत्वारि महान्ति यत्र । तत्रैतमेनं जगदर्चनीयं, विद्याचणं श्रीजिनकीर्तिमुरिम् ।। ७० ।। प्रवेशयामास पुराऽन्तरित्थं, परिभ्रमनेष पुरे समस्मिन् । पश्यनेिशान् प्रतिमन्दिरं स आगावूकोटरिकां मुहल्लाम् ।। ७९ ।। तत्र स्थितं रम्यमलञ्चकार सुशोभितं तोरणबन्धनाऽऽद्यैः । उपाश्रयं सूरिवरोऽथ रम्या-मारब्धवान् मङ्गलदेशनां सः ॥ ७२ ॥ इहत्यकश्रीयतिरूपचन्द्र- सच्छिष्यको मोहनलालनामा । प्राप्तप्रतिष्ठ १ दुर्गाऽतिदुर्गं रिपुभीतिवर्जमिति वा । For Private And Personal Use Only Acharya Shri Kallassagarsuri Gyanmandir पञ्चमः सर्गः । ॥१०४॥

Loading...

Page Navigation
1 ... 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144