Book Title: Jinkrupachandrasurishwar Charitram
Author(s): Jaysagarsuri
Publisher: Jaysagarsuri
View full book text
________________
SinMahavir.jan AradhanaKendra
www.kobatirtm.org
Acharys su kalis
Gyanmar
*AR
पञ्चमः सर्गः।
श्रीजिन-1 कृपाचन्द्र
सरिचरित्रम्
॥१०७॥
मेकम् ॥ १३५ ॥ चतुर्भुवाऽऽयं शिखराऽतिशोभ, बभ्रंलिहं भूरिविचित्रचित्रम् । द्विपञ्चजैनाऽऽलयसाम्यमास-मालोक्य तस्थौ दिवसद्वयं सः ॥ १३६ ॥ साध्व्योईयोस्तत्र ददौ स दीक्षा, गुर्वीमथाऽतो दिवसे तृतीये । विहृत्य पुर्यामयमोलवीति-नाम्न्यां समागत्य सुखेन तस्थौ ॥ १३७ ॥ ( वसन्ततिलका)-तस्माद्विहृत्य समियाय पुरं स चोप-डाऽऽख्य पुरं पुरजनैरतिसत्कृतः सन् । धर्मोपदेशपटलैरखिलान् प्रबोध्य, कृत्वा विहारमगमभिवलीपुरं सः ॥ १३८ ।। पालीनिवासिसुजना बहवोऽपि तत्र, श्रीमरिराजमभिवन्दितुमेयिवांसः । तां तामसीं सकलभव्यजनाः सुखेन, न्यूघुश्च तत्र गुरुपत्कजमाश्रयन्तः ।। १३९ ॥ जाते प्रभातसमये गुरुदेववर्यः, तैः श्रावकाऽऽदि सुजनैः सह संविहृत्य । पालीपुरीमभिययौ धुतकल्मपौधः, पौरास्ततो गुरुसमागमजातमोदाः ॥ १४० ।। ( उपजातिः) सदण्डभेर्यादिक-भानुवादि-त्रैः सन्नदद्भिर्युगपत्समुच्चैः । देध्मीय्य(य)मानैर्बहुभिश्च शखैः, सचित्रचीनांशुकसद्ध्वजैश्च ॥ १४१॥ सुश्राविकामङ्गलगीतनादै-र्जयाऽऽरवैर्दीर्घतरैश्च लोकैः । प्रमाणब गुरुराजमेनं, प्राचीविशन् सञ्जितसत्पुराऽन्तः ॥ १४२ ॥ (त्रिभिर्विशेषकम् ) परिभ्रमंस्तत्र पुरे स इत्थं, जिनांश्च पश्यन् प्रतिमन्दिरेषु । लोढीयवासे प्रभुशान्तिनाथ-चैत्यं ददातिमुदं बभार ॥ १४३ ।। चैत्यस्य वामेऽस्थित कृष्णलाल-लूनाबतीया नवधर्मशाला । उचीर्य तस्यां परमोपदेश, दवा विशश्राम स मूरिराजः ॥ १४४ ।। प्रभावनां श्रीफलशर्कराऽऽदि, लात्वा च सर्वे निजसझ जग्मुः । गुणान् गुरूणां निगदन्त उ-रात्मन्यसीमा मुदमाप्नुवन्तः ॥ १४५॥ सुश्रावकाऽऽदेरधिकाऽऽग्रहेण, शरीरकाश्योऽऽदिकहेतुना च । आचार्यवर्यः समतिष्ठतात्र, प्रायो हि पक्षं प्रतिवासरं सः ॥ १४६ ॥ सद्देशनाभिः सकलांच भव्यान् , सुधोपमाभिः प्रतियोधयन् सः । अथौशियामेलन आगतो हि, दृष्टः पुरा श्रावक एत्य कश्चित् ॥१४७॥ विनीतवेषः
*4556454643
॥१०७॥
For Private And Personal use only

Page Navigation
1 ... 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144