Book Title: Jinkrupachandrasurishwar Charitram
Author(s): Jaysagarsuri
Publisher: Jaysagarsuri
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
श्रीजिन
कृपाचन्द्रसूरि
चरित्रम्
॥१०८॥
www.kobatirth.org.
1
सुग्रीवजातीयखगैरपीत्थम् ।। १६० ।। कृतं कुलायं शतशः सहस्रं, जीर्णं प्रथमं समुदीक्ष्य चैत्यम् । तदुद्धृतौ यत्नधरः प्रकामं, सकस्तदा कर्मकरानुवाच ।। १६१ ।। यूयं हि सर्व चितसङ्करादि- चैत्यस्थितं शीघ्रमपाकुरुध्वम् । ते तं समूचुर्न वयं किलैतपाककृत्यं प्रविदध्महे भोः ! ।। १६२ ।। अथाऽत्रवीत्कर्मकरं स्वकीयं, द्वौ स्वः किल त्वं परिमार्जयैतत् । क्षिपाम्यहं वा परिमार्ग्यदं हि क्षिप त्वमेवेति तदीयवाक्यम् ॥ १६३ ॥ ( इन्द्रवंशा ) - श्रुत्वा स दासः परिगृह्य मार्जनीं, लग्नः प्रमाटुं क्रमशस्तया सकः । प्रक्षेप्तुमारब्ध वणिग्वरः स्वयं दृष्ट्वा तदाऽन्येऽपि च कर्तुमुद्यताः ।। १६४ ।। (युग्मम् ) अन्तर्बहिश्चाऽपि तदैव तस्य व्यशोधयत्पावन मन्दिरस्य । तदूर्ध्वभागे च ददर्श सोऽथ, नानाविहङ्गाऽण्डशिशुस्थितिं च ॥ १६५ ॥ दृष्ट्वा दयालुर्मनसि व्यशोचीत् सहस्रशोऽहं कथमत्र जीवान् । पञ्चेन्द्रियाऽऽदीनभिहत्य जानन् ऊर्ध्वप्रदेशं परिशोधयानि ।। १६६ ।। (युग्मम् ) हिंसामृते शोधनमप्यमुष्य, दुरापमेवास्ति न संशयोऽत्र । कृतिश्च तस्या अतिदुष्करैव विचिन्तयनित्थमसौ हि कुडये ॥ १६७ ॥ संस्थापितां भैरवमूर्तिमृग्रां ददर्श रम्यामथ स प्रदोषे । ताम्बूल - सिन्दूरदशाङ्गधूप-दीपा - sक्षतैलेयसुमालिकाभिः ।। १६८ ।। तैलेन नैवेद्यवरेण पूजां विधाय नीराजनमेतकस्य । कृत्वाऽतिभक्त्या तमयाचतैवं देव ! प्रभो ! भूरिपरिश्रमेण ॥। १६९ ।। मया किलैतन्निजशक्त्यशोधि, नाऽहमि शेषं परिशोद्धुमस्य । यद्यस्य जीर्णोद्धृतिमिच्छसि त्वं तर्खाशु तत्र स्थित सर्वजीवान् ॥ १७० ॥ निष्काशयानन्तरमाशु चाऽहं समुद्धतिं कारयितास्मि देव! | नो चेदहं जीववधाssदिपापाद् विमेमि तस्मादिदमेव याचे ॥ १७१ ॥ ( पञ्चभिः कुलकम् ) से इत्थमभ्यर्च्य तदप्रतो हि समस्वपीचोषसि जागरित्वा । दृष्ट्वा शकुन्तत्रजनीडमुक्त-मजईपीचेतसि तत्प्रभावम् ।। १७२ ।। अमन्यताऽसौ ध्रुवमेव शीघ्रं, जीर्णो
For Private And Personal Use Only
Acharya Shri Kallassagarsuri Gyanmandir
पञ्चमः
सर्गः ।
॥१०८॥

Page Navigation
1 ... 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144