Book Title: Jinkrupachandrasurishwar Charitram
Author(s): Jaysagarsuri
Publisher: Jaysagarsuri

View full book text
Previous | Next

Page 125
________________ Shri Mahavir Jain Aradhana Kendra बीजिनकृपाचन्द्रसूरि चरित्रम् ॥११२ ॥ www.kobatirth.org सुबोली, प्रभावना - पूजन-संघभक्तीः । सर्वं तदेतद्बहुशंसनीय, महोत्सवं चारुतरं व्यधत्त ।। २६२ ।। सरस्वती शीलवती सुबुद्धिः, प्रत्यब्दमत्रस्थितमूलचैत्ये । चैत्रीयशुक्लप्रतिपत्तिथौ हि जिनाचनार्थं द्रविणं न्यर्युक्त ।। २६३ ॥ यावत्क्षितौ चन्द्रदिवाकरौ तौ स्यातां हि तावत्प्रतिवर्षपूजा । शत्रुञ्जयाद्रावचला तदीया, युगादिनाथस्य जिनेश्वरस्य || २६४ || चैत्रीयपर्वाण्यथ संविधाय कृत्वौलिकापर्वविशेषमेते । वैशाखशुक्लाक्षयसत्तृतीया - माराध्य नत्वा गुरुदेवपादौ ।। २६५ ॥ विचिन्तयन्तो हृदि तीर्थराजं, गुरोः पदाब्जं बहुशः स्मरन्तः । मोनुद्यमानाः सकला निवृत्य, जग्मुः स्वकीयं नगरं प्रसन्नाः ।। २६६ ।। अमुष्य वंश्यः किल भाइदासः, शैल-द्वि-वस्कमिताऽब्द के च । जिनादिलाभाऽभिधवरियाचा, मुद्रासह रस-राम-संख्दैः ॥ २६७ ॥ ( वसन्ततिलका ) - भूमित्रयाऽऽयमतिसुन्दरमन्दिरं हि निर्माप्य तत्र नवविम्ब मतिष्ठिपत्सः । श्रीमद्विभोर्दशमशीतलनाथकस्य, संकारिताञ्जनशलाकमुदारबुद्धिः ।। २६८ ॥ ( उपजातिः ) - वेदिप्रतिष्ठामपि कारयित्वा, चैत्याऽन्तिके चैकमुपाश्रयं च । ततश्च तं श्रीजिनलाभसूरेः समार्पयत्सादरमिभ्यवर्यः ॥ २६९ ॥ + ( वसन्ततिलका ) -- आरभ्य तद्दिवसमद्यदिनं हि यावत् सङ्कथ्यते च स हि शीतल [सद्वाटिकां] वाटिकेति । पुष्पालवालरमणीयतमा कृता सा, श्रीमजिनेशपरिपूजनहेतवे हि || २७० || पट्टावली (लीं) निगदितामथ दर्शयामि, यत्पलि (लीं) कानगर - सत्यपुरादिपूर्षु । पर्यट्य राधनपुरं समुपेत्य सूरिः, शतेश्वरप्रभुवरं जिनपार्श्वनाथम् ॥ २७१ ॥ ( उपजातिः ) — आलोक्य सच्छ्रेष्ठिगुलाबचन्द - श्री भाइदासादिजनाऽऽग्रहेण । समागमत्सूर्यपुरं विहृत्य, तुरङ्ग-पक्षाऽद्रिसुधांशुवर्षे ।। २७२ ॥ ( युग्मम् ) ( वसन्ततिलका ) - आद्यन्ययप्रभव सर्वमहेभ्यमुख्य- श्रीनेमिदासशुभनन्दन भाइदासैः । सङ्कारिते त्रिधरसुन्दरमन्दिरे हि, For Private And Personal Use Only Acharya Shri Kallassagarsuri Gyanmandir पञ्चमः सर्गः । ॥ ११२॥

Loading...

Page Navigation
1 ... 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144