Book Title: Jinkrupachandrasurishwar Charitram
Author(s): Jaysagarsuri
Publisher: Jaysagarsuri

View full book text
Previous | Next

Page 119
________________ SinMahavir.jan AradhanaKendra www.kobatirtm.org Acharys su kalis Gyanmar श्रीजिनछपाचन्द्र सरि पश्चमः सा चरित्रम् ॥१०९|| होंडुरैः । सूरीन्द्रोऽपि ततः सभामधिगतः सद्देशनां दत्तवान् , संसारार्णवतारिणी शिवसुखानन्दप्रदात्रीमलम् ॥ १८६॥ (तोटकम् )-शिवगञ्जपुरी समियाय ततो, नगरीजनतापरमोत्सवतः। प्रविवेश पुरं तत एप ददा-बुपदेशमलं कलुषा:पहरम् ॥ १८७ ।। (उपजातिः)-स्थित्वा व्यहं मूरिवरः सुखेन, कृत्वा विहारं तत आजगाम । पोसालियानामपुरं स पोरे, सुसत्कृतोऽदात्परमोपदेशम् ॥ १८८ ॥ (वंशस्थ)-विहृत्य तस्मादितवान् स पालडी, समस्तसंघः कृतवान् सुसत्कृतिम् । प्रदत्तवानेप विशेषदेशनां, प्रबुद्धवांस्तवमशेषमाहेतम् ॥ १८९ ॥ ततः शिरोहीनगरं प्रयाता, प्रवेशयामास पुराजनस्तम् । बेण्डाऽऽदिकाऽऽतोद्यसुहृद्यघोष-दत्तोपदेशः स्थितवान् दिने द्वे ।। १९० ।। सिन्दूरसंज्ञं नगरं ततोऽगात्, पुरीजनारब्धमहामहेन प्रविश्य लोकान् सुचिरं स सूरि-रुपादिशच्चाऽऽर्हतधर्मसारम् ॥ १९१ ॥ समाययौ मेरुपुरं ततोऽसौ, गुर्वागमोद्भूतविशेषहर्षः । संघः सुचारूत्सवमाशु कृत्वा, प्रावीविशत् नगरं महान्तम् ॥ १९२ ॥ सूरीश्वरस्तत्र ददौ सुवाचा, सुधामयीं धार्मिकदेशनां सः । अपार-संसार-सुदुर्ग-कान्ता-रलग्न-दावोपमतामुपेताम् (दावानलवारिकल्पाम् ) ॥ १९३ ।। इतः समागात् सणवाडपुर्या, प्रबोध्य लोकांस्तत आजगन्वान् । स पालडीमत्र महोपदेशैः, प्रावृबुधत्सर्वजनांश्च तत्वम् ।। १९४ ॥ ततो विहारं प्रविधाय सूरि-हणादरायां पुरि चाऽऽयताऽसौ । ततो विहृत्यार्बुदभूधरोप-रिष्टादितो देवलयुक्तबाटम् ।। १९५ ॥ (मालिनी)-अचलगढसुयात्रामप्यसौ सरिराजो, यकृत सकलशिष्यैः सार्धमत्यन्तभन्या । पुनरपि तत आगाद्देवलार्दि च वाट, त्रिदिवसमिह तस्थौ पूज्यपादारविन्दः ॥ १९६ ॥ (उपजातिः) समागमत्यर्यपुरान्महेभ्यः, सिद्धाऽचलाऽन्ते- प्सितसुप्रबन्धम् । कृत्वा न्यवर्तिष्ट ततोऽसको हि, हणादरायां पुनराजगाम ।। १९७ ॥ ततो दमाणीनगरीमगच्छत् , ततश्च I ॥१०९॥ For Private And Personal use only

Loading...

Page Navigation
1 ... 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144