Book Title: Jinkrupachandrasurishwar Charitram
Author(s): Jaysagarsuri
Publisher: Jaysagarsuri
View full book text
________________
S
a n Archana Kenda
पञ्चमः सर्गः।
श्रीजिन- कृपाचन्द्र
सरिचरित्रम्
॥१०५
ऽत्यन्तविद्वान् विजिततममना ऋद्धियुक् सागराऽऽख्यः आसीदन्तेसदस्य प्रथितबहुतपाः सागरः स(रो वै)मुखाऽऽदिः, शान्तो दान्तो विनीतः क्षितितलविदितः सर्वजीवोपकर्ता ।।८६।। (उपजाति:)-अमुष्य शिष्यौ भगवानदासः, स्थानादिकः सागरकश्च जातौ। लोकोक्तिरेषा मयका बहुम्यो, लोकेभ्य आकर्णि परम्परातः॥८७॥ (गीतिः)-भगवान् सागरमणिनी, महोपाध्यायसुमतिसागरगणी। शिष्यो बभूव विद्वान्, प्रख्यातिमान् क्षितितले सर्वत्र ।।८८।। अस्याऽभवतां शिष्यौ, पन्यास-मणिसागरमतिसागरौ । विद्वांसौ तावधुना, वरीकृत्येते वसुधां पुनानौ ।। ८९ ।। (वसन्ततिलका)-श्रीस्थानसागरगणेः सुविनीतशिष्यः, श्रीमान् प्रधी छगनसागरनामकोऽभूत् । श्रीपूर्णसागरगणी प्रथमच तस्य, शिष्योऽपरो नवनिधिश्रितसागराऽऽख्यः ॥ ९०॥ श्रीपूर्णसागरगणेरभवत्सुशिष्या, श्रीक्षेमसागरगणी बहुकीर्तिशाली । शिष्यस्तदीय-गणि-बल्लभसागराऽऽरख्यः, सम्प्रत्यसौ विजयते क्षितिमण्डलेऽस्मिन् ॥ ९१ ।। किश्चाऽन्यदप्यहमनेकमुखाच्छृणोमि, यत्तस्य मोहनयुतस्य हि लालकस्य । बन्धुर्गुरोः सुमतिवर्द्धननामधेयो, नाम्नाऽपरेण स हि साहिवचन्द्रकेण ।। ९२ ॥ प्रख्यातिमानुदधरत्स्वयमेव कर्म, तेनाऽऽशु सर्वजनतासु महत्वमापत् । चारित्रसागरगणी समभूदमुष्य, पादाम्बुजाऽमलपरागविलुब्धभृङ्गः ॥९३॥ श्रीमान् प्रतापयुतसागरनामधेय:, शिष्यो बभूव गुणवान् गुरुभक्तिरक्तः । इत्यन्तसमभिधाय जनैश्च पृष्टो, लोकाऽऽग्रहास हि चतुःशरघरमस्थात् ॥ ९४ ॥
(उपजातिः)-ततो विहत्याऽऽगतवान् स मूंड-वाऽऽख्यां पुरी पौरजना महद्भिः । प्रावीविशंधारुमहोत्सवैस्ते, व्या. ख्याचिरं सोऽपि विशुद्धधर्मान् ।। ९५॥ कृत्वा विहारं तत एप सूरि-रागत्य तस्थौ खजवालपुर्याम् । पप्रच्छ गच्छाः सकलाः किमेक-गणाधिपाद्वा परतोऽप्यभूवन् ? ॥ ९६ ॥ तदोचिवान् सूरिवरस्तमेवं, भद्रेकपट्टे भगवान् स वीरः । श्रीगौतम
॥१०५॥
For Private And Personal use only

Page Navigation
1 ... 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144