SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ S a n Archana Kenda पञ्चमः सर्गः। श्रीजिन- कृपाचन्द्र सरिचरित्रम् ॥१०५ ऽत्यन्तविद्वान् विजिततममना ऋद्धियुक् सागराऽऽख्यः आसीदन्तेसदस्य प्रथितबहुतपाः सागरः स(रो वै)मुखाऽऽदिः, शान्तो दान्तो विनीतः क्षितितलविदितः सर्वजीवोपकर्ता ।।८६।। (उपजाति:)-अमुष्य शिष्यौ भगवानदासः, स्थानादिकः सागरकश्च जातौ। लोकोक्तिरेषा मयका बहुम्यो, लोकेभ्य आकर्णि परम्परातः॥८७॥ (गीतिः)-भगवान् सागरमणिनी, महोपाध्यायसुमतिसागरगणी। शिष्यो बभूव विद्वान्, प्रख्यातिमान् क्षितितले सर्वत्र ।।८८।। अस्याऽभवतां शिष्यौ, पन्यास-मणिसागरमतिसागरौ । विद्वांसौ तावधुना, वरीकृत्येते वसुधां पुनानौ ।। ८९ ।। (वसन्ततिलका)-श्रीस्थानसागरगणेः सुविनीतशिष्यः, श्रीमान् प्रधी छगनसागरनामकोऽभूत् । श्रीपूर्णसागरगणी प्रथमच तस्य, शिष्योऽपरो नवनिधिश्रितसागराऽऽख्यः ॥ ९०॥ श्रीपूर्णसागरगणेरभवत्सुशिष्या, श्रीक्षेमसागरगणी बहुकीर्तिशाली । शिष्यस्तदीय-गणि-बल्लभसागराऽऽरख्यः, सम्प्रत्यसौ विजयते क्षितिमण्डलेऽस्मिन् ॥ ९१ ।। किश्चाऽन्यदप्यहमनेकमुखाच्छृणोमि, यत्तस्य मोहनयुतस्य हि लालकस्य । बन्धुर्गुरोः सुमतिवर्द्धननामधेयो, नाम्नाऽपरेण स हि साहिवचन्द्रकेण ।। ९२ ॥ प्रख्यातिमानुदधरत्स्वयमेव कर्म, तेनाऽऽशु सर्वजनतासु महत्वमापत् । चारित्रसागरगणी समभूदमुष्य, पादाम्बुजाऽमलपरागविलुब्धभृङ्गः ॥९३॥ श्रीमान् प्रतापयुतसागरनामधेय:, शिष्यो बभूव गुणवान् गुरुभक्तिरक्तः । इत्यन्तसमभिधाय जनैश्च पृष्टो, लोकाऽऽग्रहास हि चतुःशरघरमस्थात् ॥ ९४ ॥ (उपजातिः)-ततो विहत्याऽऽगतवान् स मूंड-वाऽऽख्यां पुरी पौरजना महद्भिः । प्रावीविशंधारुमहोत्सवैस्ते, व्या. ख्याचिरं सोऽपि विशुद्धधर्मान् ।। ९५॥ कृत्वा विहारं तत एप सूरि-रागत्य तस्थौ खजवालपुर्याम् । पप्रच्छ गच्छाः सकलाः किमेक-गणाधिपाद्वा परतोऽप्यभूवन् ? ॥ ९६ ॥ तदोचिवान् सूरिवरस्तमेवं, भद्रेकपट्टे भगवान् स वीरः । श्रीगौतम ॥१०५॥ For Private And Personal use only
SR No.020408
Book TitleJinkrupachandrasurishwar Charitram
Original Sutra AuthorN/A
AuthorJaysagarsuri
PublisherJaysagarsuri
Publication Year
Total Pages144
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy