Book Title: Jinkrupachandrasurishwar Charitram
Author(s): Jaysagarsuri
Publisher: Jaysagarsuri
View full book text
________________
SinMahavir.jan AradhanaKendra
www.kobatirtm.org
Acharys
Kalasagaran Gyanmada
॥ ४८ ॥ (मालिनी)-इति निगदति तस्मिन् मरिराजे गरिष्ठे, परममुदमवापुः पौरलोका अशेषाः । सकलनगरशोभा तोरणाऽऽधैर्वितेनुः, प्रतिपदि सितभिन्ने मार्गशीर्षे पुराऽन्तः ।। ४९॥ गुरुवर उपयातो धर्मशालां विशाला, कमलभवसुतिथ्यां प्रातराचार्यवयः। व्यहरत सह शिष्यैर्वादशाऽऽतोधनादै-रुपयति बधिरत्वं प्रायशः सर्वलोके ॥ ५० ॥ (युग्मम् ) सह सकलसुसंघे राँघडीचौकहात् , प्रतिविपणि परिभ्राम्यन्नयं मन्दिराणि । परमजिनवराणामीक्षमाणः समन्ताद्, विपुलनगरमध्यादक्षिणद्वारतोऽसौ ॥ ५१ ॥ (उपजातिः)-विनिर्गतः श्रीप्रभुरेलदादा-जित्स्थानमागत्य सुखेन तस्थौ । क्रोशार्थदरे नगराच्च तस्मा-दाद्यप्रयाणं समभूदिहैव ।। ५२ ।। (युग्मम्) तत्रत्यसंघस्य चतुर्विधस्य, सच्छ्रेष्ठिनः सूरतवासिनश्च । अत्याग्रहादेष दिने द्वितीये, सन्तस्थिवान्दीनदयालुबयः ॥ ५३ ।। श्रीस्वामिवात्सल्यमपि प्रचक्रे, तस्मिन् दिने सूर्यपुराऽधिवासी। प्रभावनापूजनमेष तत्र, भक्त्या महत्या कृतवान् महेभ्यः ॥ ५४॥ दिने तृतीयेऽपि तदध्यतिष्ठत् , सद्धेतुना सूरिवरः सुखेन । चक्रे च तस्मिन् दिवसे स्वधर्मि-वात्सल्यपूजाऽऽदिकमादरेण ॥ ५५ ।। सद्भावतो विक्रमयुक्पुरीय-स्तुरीयघले प्रग एवं वरिः । करवा विहारं सह साधुवर्ग-रुद्रामयुक्तं सरमाजगाम ।। ५६।। तत्रस्थदादाजितमेष भक्त्या, नत्वा च नुत्वा परिवृद्धभावैः । चक्रे द्वितीय क्रमशः प्रयाण, स्थाने हि तस्मिन्यतिराजमुख्यः ।। ५७ ॥ विहृत्य तस्मात्स हि देशणोक-मागत्य सर्वः पुरवासिलोकैः । सुसत्कृतः सर्वजनान् प्रबोध्य, प्रगे विहारं कृतवांस्ततब ।। ५८ ।। स शूरपूराsभिधधूमयान-स्थितिस्थले रम्यसरायगेहे । तुर्यप्रयाणं कृतवान् सुखेना-ऽध्युष्यैकरात्रं गुणवारिकूपः ।। ५९ ॥ ततश्चलित्वा सह सर्वशिष्ये-नोकाभिधग्रामटिकामियाय । वाद्याऽऽदिभिः पौरजनास्तमेतं, प्रवेशयामासुरति प्रहटाः ।। ६० ।। सूरीश्वर
4
-
4-
For Private And Personal use only

Page Navigation
1 ... 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144