Book Title: Jinkrupachandrasurishwar Charitram
Author(s): Jaysagarsuri
Publisher: Jaysagarsuri

View full book text
Previous | Next

Page 94
________________ SinMahavir.jan AradhanaKendra www.kobatirtm.org Acharys St Kalassagan Gyanmandi कानि प्रविभान्ति तद्वत् । पुर्याश्चतुर्दिक्षु महत्तराणि, निर्वाणसमान्यतुलानि भान्ति ॥ ३५० ॥ बामेति यद्वद्गजदन्तसंबैनगैश्चतुर्भिः कनकाचलः सः। तथा पुरीयं गुरुवर्यमुक्ति-स्थानचतुर्मिः सततं विभाति ॥ ३५१ ।। सर्वे धनाऽऽढ्या निवसन्ति तत्र, कोटिध्वजाश्चेभ्यवरा अनेके । ततोऽधिकाः श्रेष्ठिवराः कियन्तो, न्यूनाच लक्षान हि केपि जैनाः ॥ ३५२ ।। अनेकविद्यालयमत्र भौपं, जैनीयकं चाऽपि विशालमस्ति । कन्यासुशिक्षाभवनं च नैक, सवेदशाला महती च राज्ञः ॥३५३।। सल्लेखशालाऽऽङ्गलपाठशालाः, सदौषधस्थानमनेकशो हि । स्त्रीणां चिकित्साभवनं विशालं, सद्राजकीयं पृथगस्ति तत्र ॥३५४|| (शार्दूलविक्रीडितम्)-आयुर्वेदिकमेषजालयमिहाऽनेकं वरीत्यते, वापी-प-तडाग-हारि-विविधाऽऽरामा: सरस्यस्तथा । उद्यान बहुलं नृपस्य महतामिभ्याऽऽदिकानामपि, स्वर्वेश्या इव भान्ति तत्र गणिकाश्चन्द्राऽऽनना भूरिशः ॥ ३५५ ।। विद्वांसो बहुशो वसन्ति जगति प्रख्यातकीर्तिव्रजा, विप्रा वैदिककर्मठा बुधवरा नित्यं स्वधर्म रताः । जात्याश्वा अमिता मदान्धकरिणः क्षोणीपतिर्धार्मिको, नीतिज्ञा वरमन्त्रिणो विजयिनी सेना यशस्कारिणी ।। ३५६ ।। सच्छीलाः कुलजाङ्गनाः सुनयनाः पूणेन्दुविम्बाऽऽनना, नाऽनीतिर्न च दुष्कृतं न च भयं चौराऽऽदिजं कर्हिचित् । प्राकारेण सुदुर्गमा सुरपुरी जाहस्यमानाधिका, नानाभौमिकतुङ्गसौधपटली लेलिह्यते चाऽम्बरम् ।। ३५७ ॥ ( उपजातिः)-वृहल्लघुद्वारमपूर्वमस्या-श्चतुष्प. थाऽऽदिर्विपुलो बनेक: । सद्राजमार्गो विपणिः प्रहश्या, महाऽऽपणाऽऽली बहुधा विभाति ।। ३५८ ॥ घण्टापथोऽप्यत्र विशेष रम्यः, सर्वत्र पुर्यामतिविस्तृतश्च । रथ्या वृहत्याः परिशोभमानाः, सौगन्धिकादेविपणिश्च तासु ॥ ३५९ ॥ राठोरवंशं समल- | |कारिष्णुः, श्रीमान्महीयान् गुणवान् नयज्ञः । शार्दूलसिंहो वसुधाधयोऽस्ति, सर्वाः प्रजाः पाति पितेव नित्यम् ।। ३६०॥ MAHARASHTRA For Private And Personal use only

Loading...

Page Navigation
1 ... 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144