Book Title: Jinkrupachandrasurishwar Charitram
Author(s): Jaysagarsuri
Publisher: Jaysagarsuri
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
श्रीजिन
कृपाचन्द्र
सूरिचरित्रम्
।। ८९ ।।
www.kobatirth.org
स्थातुमलम्भवामि ।। १६१ ।। ततः परावृत्य सुखेन चाहें, कालं कियन्तं स्थितिमत्र कृत्वा । मनोरथं वः परिपूरयिष्ये, तावच धर्मं सकलाः कुरुध्वम् ।। १६२ ।। (इन्द्रवज्रा ) - तानेवमाख्याय ससंघसूरिः, प्रस्थाय तूर्णं तत आजगाम । घाणीपुरं किन्तु समस्तसंघ - स्थानासच्वात्पुरतश्चचाल ।। १६३ ।। गव्यूतियुग्मोपरि हारलाया - मागत्य संघो न्यवसद्विरात्रम् । ततचलित्वा पुनरेष पश्च-क्रोशोपरिष्टाद्विककोरमागात् ॥ १६४ ॥ इतः शरकोशिकमोशियाख्यं सत्तीर्थमासादयदेप संघः । विलोक्य तीर्थेशमशेपसंघो, विधाय यात्रां प्रमुदं प्रभे ।। १६५ ।। पूर्व हि तत्तत्समये बभूवुः, श्रीनाभिनुप्रमुखा महिष्ठाः । बामेयपाऽन्तिमकाथ सिद्धा, जिनात्रयोविंशतिसंख्यका हि ॥ १६६ ॥ तेष्वस्य पार्श्वादिकनाथकस्य, सत्पुरुषाऽऽदेयतरस्य गच्छाः । अष्टौ गणेशा अपि तत्प्रमाणाः, काले च तस्मिन्नभवन् सुवन्याः ॥ १६७ ॥ यथा शुभंयुः शुभदत्त आर्य घोषो
प्रचारी | सौम्यस्तथा श्रीधर वीरभद्रौ यशोधरश्वाऽष्टगणाऽश्विनाथाः ॥ १६८ ॥ कर्तार एते पृथगेव ते स-माचारिकायाः सकला गणेशाः । मिथो विभिन्नाऽऽचरणा बभूवन् पृथक् पृथक ते रचयाम्बभूवुः ।। १६९ ।। ते द्वादशाङ्गीमथ वाचनापि, जाता यमीपां पृथगेव लोके । तस्याश्च भेदे हाभवन् हि गच्छा, अष्टौ प्रसिद्धा अवनीतलेऽस्मिन् ॥ १७० ॥ श्री पार्श्वनाथप्रभुततुर्थ पट्टावधिं मोक्षमुपेयिवांसः । युगान्तकृद्भूमिमिदं वदन्ति परावरज्ञा ऋपयो महान्तः ॥ १७१ ॥ श्री पार्श्वनाथप्रभुकेवलज्ञानोत्पत्तिपश्चातृतयाऽब्दतो हि मोक्षः प्रवृत्तोऽभवदेव पर्यायान्तप्रभूमिरुदीर्यते तत् ।। १७२ ।। अमुष्य शिष्यः शुभदच आयो, द्वितीयशिष्यो हरिदत्तनामा । केशी तृतीयोऽभवदार्ययुक्त-समुद्रनामा समभूच्चतुर्थः ।। १७३ ।। स्वयम्प्रभोऽभूदथ पञ्चमश्च, रत्नप्रभश्चाऽभवदेप पष्ठः । निशम्यतेऽनेकचिरन्तनाऽऽस्या-द्वत्तं किलैतद्बहुधा मया हि ॥ १७४ ॥
For Private And Personal Use Only
Acharya Shri Kallassagarsuri Gyanmandir
चतुर्थः सर्गः ।
॥ ८९ ॥

Page Navigation
1 ... 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144