Book Title: Gathasaptashati
Author(s): Nathuram Shastri
Publisher: Pandurang Javji
View full book text
________________
१०८
काव्यमाला |
प्रोषितपतिकायाः सखी तत्कान्तागमनत्वरार्थं पथिकद्वारा संदिशतिसच्चं भणामि बालअ णत्थि असकं वसन्तमासस्स । गन्धेण कुरवआणं मणं पि असइत्तणं ण गआ ॥ १९ ॥ [ सत्यं भणामि बालक नास्त्यशक्यं वसन्तमासस्य । गन्धेन कुरबकाणां मनागप्यसतीत्वं न गता ॥ ] सत्यं भणामि बालक न चास्त्यशक्यं वसन्तमासस्य । गन्धेन कुरबकाणामसतीत्वं न हि गता मनागपि सा ॥ १९ ॥ विरह चरित्रानभिज्ञत्वाद् बालकेति संबोधनीय ! अहं सत्यं भणामि | संबोध्यमुद्दिश्य वक्तव्यविषयकथनेनैव सिद्धे पुनः 'सत्यं भणामि इत्युक्त्या अहं बोधनीयं त्वां सत्यं बोधयामि इति लक्ष्यते । तेन च 'अहं तव हितैषिणी अस्मि' इति निजवचनस्य विश्वसनीयत्वं ध्वन्यते । वसन्तमासस्य अशक्यं नास्ति, मनउन्मादकतया शीलखण्डनादिकं वसन्तमासस्य दुष्करं नास्तीत्यर्थः । परं सा कुरबकाणां परिमलेन ईषदपि असतीत्वं न गता । अनेन ' सा त्वय्येव वृतव्रता वर्तते, आश्वसिहि' इति द्योत्यते । परमेतेन सहैव ‘नास्त्यशक्यं वसन्तमासस्य' इत्यनेन नायकहृदयेऽधैर्यमप्युत्पाद्यते । तथा च 'विरहे नारीणां हृदयवेदना न ते विदिता, अत एव यावदियं त्वदागमनबद्धलक्ष्या न खण्डितशीला भवति तावदेनामचिरमुपगच्छ' इति नायकं प्रत्यभिव्यज्यते । नायकमुत्कण्ठयितुं दूती कस्याश्चिदनुरागातिशयमाह -
एक्केकभवइवेठणविवरन्तरदिण्णतरलणअणाए । तर बोलते बालअ पञ्जरसउणाइअं तीए ॥ २० ॥ [ एकैकवृतिवेष्टन विवरान्तरदत्ततरलनयनया ।
त्वयि व्यतिक्रान्ते बालक पञ्जरशकुनायितं तया ॥ ] एकैकक वृतिवेष्टनविवरान्तरदत्ततरललोचनया । व्युत्क्रामति बाल त्वयि पञ्जरशकुनायितं हि तया ॥ २० ॥
अवसरे दृष्टिक्षेपानमिज्ञत्वाद् बालकल्प ! तामतिक्रम्य त्वयि आगच्छति सति । एकैकस्मिन् वृतिवेष्टनस्य विवरान्तरे प्रहितं चञ्चलं नयनं यया एतादृश्या तया पजरबद्धपक्षिवदाचरितम् । पञ्जरबद्धः पक्षी यथा प्रतिविवरं दत्तदृष्टिर्भ्रमति तथा त्वद्दर्शनलालसया तया भ्रान्तमित्यर्थः । एकैकस्मिन्नित्यनेन 'कदाचिदस्मिन्विवरान्तरे दर्शन सौकर्यं स्यादिति प्रत्येकच्छिद्रान्तरतो दर्शनेनोत्कण्ठातिशयो द्योत्यते । प्रेषितलोचनयेति वक्तव्ये दत्तपदेन नयनस्य दर्शने गाढसंसक्तत्वं लक्ष्यते । तथा च प्रियदर्शने परवरां नयनमित्युत्कण्ठातिशयः प्रतीयते । तरल विशेषणेनापि 'नयनमार्गात् प्रियः शीघ्रं नापक्रामेत्' इति दर्शनशीघ्रतया उत्कण्ठातिशयो द्योत्यते । शकुनिदृष्टान्तेन 'त्वद्दर्शनादुत्कण्ठिता सा त्वद
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446