Book Title: Gathasaptashati
Author(s): Nathuram Shastri
Publisher: Pandurang Javji

View full book text
Previous | Next

Page 370
________________ २८५ ६ शतकम् ] संस्कृतगाथासप्तशती। राजन्ति कुमुददलनिश्चलस्थिता मत्तमधुकरमिकायाः। ग्रन्थय इव तिमिरस्य हि शशिकरनिःशेषनाशितस्येमाः॥६१॥ मधुकरखभावान्मधुपानेन मत्ताः अत एव मदजनितस्तम्भेन निश्चलं स्थिताः । शशिकिरणैनिःशेषं समापितस्य तिमिरस्य कुत्रकुत्रचित्पतिता इमा ग्रन्थय इव। निश्चलस्थित्या अचेतनाभिम्रन्थिभिः साम्यम् । 'कुमुदसरस्तीरलतागृहे चन्द्रोदयपर्यन्तमहं स्थितः, त्वं तु न गतेति कुलटां श्रावयन्कश्चिदाह' इति गङ्गाधरः। शालिक्षेत्रे रममाणा शालिगोपी क्षेत्रे शुकपतनशङ्कां सूचयन्यपि सुरतसत्वरं जार• मन्यमनस्कं कर्तुमाह उअह तरुकोडराओ णिकन्तं पुंसुवाण रिञ्छोलिम् । सरिए जरिओ व दुमो पित्तं च सलोहिअं वमइ ॥ ६२॥ [पश्यत तरुकोटरानिष्क्रान्तां पुंशुकानां पतिम् । शरद ज्वरित इव द्रुमः पित्तमिव सलोहितं वमति ॥] पति तरुकोटरतो निष्क्रान्तां पश्य पुंशुकानां हि । शरदि ठुमो ज्वरित इव सलोहितं पित्तमिव वमति ॥ ६२॥ . पित्तं हरितवर्ण तस्मिन् रक्तवर्ण शोणितमपि मिलितम् , तथैव हरितवर्णाः शुकास्तेषां चञ्चवो गलकण्ठिकाश्चारुणा इति द्वयोः साम्यम् । अत एव पुंशुकानां (नरशुकानाम्) पतिमित्युक्तम् । रममाणस्योपपतेर्भयं त्वरां चापनयन्ती दुर्दिनाभिसारिका दुर्दिनं बहुकालावस्थायीति तल्लिङ्गान्याह धाराधुवन्तमुहा लम्बिअवक्खा णिउश्चिअग्गीवा । वइवेढनेसु काआ मूलाहिण्णा व्व दीसन्ति ॥ ६३ ॥ [धाराधाव्यमानमुखा लम्बितपक्षा निकुञ्चितग्रीवाः । वृतिवेष्टनेषु काकाः शूलाभिन्ना इव दृश्यन्ते ॥] धाराविधौतवदना लम्बितपक्षा निकुञ्चितग्रीवाः । वृतिवेष्टनेषु काकाः शूलाभिन्ना इव प्रदृश्यन्ते ॥६३॥ ऊर्ध्वकृतमुखत्वात् जलधाराभिर्धाव्यमानं मुखं येषां ते । पक्षौ प्रसार्य ग्रीवां कुब्जतयावकुच्य, क्षेत्राणां कण्टकवृतिषु काकास्तथा स्थिताः सन्ति यथा ऊर्ध्वमुखास्ते उन्नामितशूलाग्राकारचञ्चुत्वात् शूलेन आ ( समन्तात् ) भिन्ना इव दृश्यन्ते । एवंरूपेण काकानां निर्भयमवस्थित्या दुर्दिनमपि चिरमवस्थायीति जारं प्रत्यभिव्यज्यते । मानिनी नायिका युक्त्या स्वसंभाषणाभिमुखीं कर्तुं नायकोऽन्तरङ्गसुहृदमाह ण वि तह अणालवन्ती हिअअं दूमेइ माणिणी अहिअम् । जह दूरविअम्भिअगरुअरोसमज्झत्थभणिएहिं ।। ६४ ॥ Vain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446