Book Title: Gathasaptashati
Author(s): Nathuram Shastri
Publisher: Pandurang Javji

View full book text
Previous | Next

Page 416
________________ ७ शतकम् ] संस्कृतगाथासप्तशती। निजस्याभावेऽवसन्नं शून्यं यत्खम् आकाशं तस्य मण्डनखरूप ! नभोभूषणेत्यर्थः । पक्षे सत् उत्तमं सपत्नीदत्तनखान्येव मण्डनं यस्य तत्संबुद्धौ । सपत्नीदत्तनखक्षताद्यङ्कितेत्यर्थः । अन्यत्र अन्यद्वीपे नीता रजनी येन, पक्षे अन्यस्या गृहे नीता रजनी येन । दिवसपते है सूर्य ते नमः। विदग्धाया नायिकाया वाच्यः सूर्यरूपोर्थः, परं शब्दशक्तिमूलानुरणनविधया अनुरक्तशरीरादर्थस्यापि प्रतीते यकरूपोर्थोपि प्रतीयते । ततश्च सूर्यप्रसङ्गे नायकमनुकीर्तयन्त्याः प्रमत्तत्वं मा प्रसाटीदिति द्वयोरुपमानोपमेयभावो व्यङ्ग्यत्वेन कल्प्यते। एवं च सूर्यो यथा दूरत एव प्रणम्यते न निकटमुपगम्यते तथा त्वमपि दूरत एव वन्दनीयोसीति नायकं प्रत्युपालम्भश्चरमं व्यङ्ग्यम् । नायकपक्षे 'दिवसपते' इत्यामन्त्रणेन-त्वं मे दिवसकालार्थमेव पतिरसि । रात्रौ तु सपत्नीषु पत्नीत्वं कलयसीति गूढोपालम्भः सूच्यते । पतिपदेनापि-'वं भोजनवस्त्राभ्यां मत्पालनमेव खकर्तव्यं मन्यसे' इत्साक्षेपो द्योत्यते। प्रियालोकेतिपदेन-यत्र रात्रयो नीयन्ते ता एव ते प्रियाः, अहं तु ते चक्षुःशुलमिति सपत्नी प्रत्यसूया व्यज्यते । लोके हि यं प्रति दूरसंबन्धो वा संबन्धविच्छेदो वा सूचयितुमिष्यते तत्र 'त्वं संप्रति प्रणम्योसि' इति वक्रोक्तिविधया प्रोच्यते । तथा चात्रापि प्रणामेन 'प्रत्यहव्यलीकशतैरनुभूतभूरिवेदनाहं साम्प्रतं त्वत्तो दूरमेव तिष्टासामि, धन्यस्त्वं मे खामी' इति गूढकोपोभिव्यज्यते । खण्डिताया उदाहरणे गृहीता सेयं गाथा स. कण्ठाभरणे । प्रवृत्तिशैथिल्यमवलोक्य 'किं गर्भवती भवतीति कान्तेन जिज्ञासिता काचिदाहविवरीअसुरअलेहल पुच्छसि मह कीस गब्भसंभूइम् । ओअत्ते कुम्भमुहे जललवकणिआ वि किं ठाइ ॥ ५४ ।। [विपरीतसुरतलम्पट पृच्छसि मम किमिति गर्भसंभूतिम् । अपवृत्ते कुम्भमुखे जललवकणिकापि किं तिष्ठति ॥] विपरीतसुरतलम्पट पृच्छसि मम किमिति गर्भसंभूतिम् । अपवृत्ते कुम्भमुखे जललवकणिकापि तिष्ठति किम् ॥ ५४॥ अपवृत्ते अधोमुखीकृते । कणिकापीत्यनेन-जललेशस्य का कथा, कणोपि न तिष्ठति । तथा च-रेतोबिन्दोरप्यसंबन्धे गर्भगन्ध एव कीदृगिति सूच्यते । संभूतिपदप्रयोगेण एवं स्थितौ संभवोपि नास्तीति गूढमाकूतं व्यज्यते। अभिरुचितेपि दयिते अतिदूरसंबन्धानुरोधेनाप्रवर्तमानां नायिका प्रोत्साहयन्ती दूती प्रसङ्गानुषङ्गेणाह अच्चासण्ण विवाहे समं जसोआइ तरुणगोवीहिं । वड्डन्ते महुमहणे संबन्धा णिहुविजन्ति ॥ ५५ ॥ - [अत्यासन्नविवाहे समं यशोदया तरुणगोपीभिः । - वर्धमाने मधुमथने संबन्धा नियन्ते ॥] Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446