Book Title: Gathasaptashati
Author(s): Nathuram Shastri
Publisher: Pandurang Javji

View full book text
Previous | Next

Page 423
________________ ३३८ काव्यमाला | धवलोसि यदपि सुन्दर तदपि तु मम रञ्जितं हृदयम् । रागभृतेपि च हृदये सुभग विनिहितो न रक्तोसि ॥ ६५ ॥ धवलः शुभ्रः श्रेष्ठश्च । रञ्जितं शोणीकृतम् अनुरक्तीकृतं च । रागेण शोणिना शोणरङ्गेण वा भृते, पक्षे अनुरागेण पूर्णे । न रक्तोसि न लोहितोसि, पक्षे नानुरकोसि । पूर्वार्द्ध धवलेनापि रक्तीकरणं विरुद्धमिति विरोधः । उत्तरार्द्ध-रङ्गभृते हृदये तिष्ठतोपि रक्कत्वाभावादतद्गुणः । ‘संगतान्यगुणानङ्गीकारमाहुरतद्गुणम्' इत्यप्पयदीक्षितः । आभ्यामलंकाराभ्याम् ‘त्वय्यद्दमनुरक्ता, परं त्वं पूर्वतोनुरक्ताया ममानुरागं दृष्ट्वापि अनुरोधवशतोपि नानुरकोसि' इति वस्तु व्यज्यते । 'भृते' इत्यनेन - रागेण उपरिपर्यन्तं पूर्ण मे हृदयमित्यतिशयो द्योत्यते । विनिहित इत्यनेन त्वं मया स्वेच्छया हृदये स्थापितोसीति प्रकृत्यैव हृदयाकर्षणजो रागो ध्वन्यते । एवं च - पूर्वार्द्ध सुन्दरेत्यामन्त्रणेन, उत्तरार्द्धे सुभगेति च संबोधनेन, प्रथमदर्शन एव तव हृदयादीन्यविचार्य सौन्दर्यमात्रमुग्धाहं त्वय्यनुरक्ताभूवम् । 'मदुपेक्षायामपि अहो कियदियमनुरक्ता' इति स्वसौभाग्यदृतस्त्वं तु नाधुनाप्यनुराज्यसीति गूढ उपालम्भो व्यज्यते । पूर्वमनुरञ्जितस्य पश्चादवधीरितस्य कस्यचित्प्रणयिनः पूर्वाकृष्टधन वैभवेनोज्वलनेपथ्यां काञ्चन गुणहीनां नायिकामनुसरन्तं कामिनिवहमवलोक्य निजगुणोत्कर्षसूचनेन वशयन्ती काचित्स्वप्रणयिनं प्रत्यन्यापदेशेनाह चञ्चुपुडाहअविअलिअसहआररसेण सितदेहस्स । कीरस्स मग्गलग्गं गन्धन्धं भमइ भमरउलम् ॥ ६६ ॥ [ चञ्चुपुदाहत विगलितसहकाररसेन सिक्तदेहस्य | कीरस्य मार्गलग्नं गन्धान्धं भ्रमति भ्रमरकुलम् ॥ ] चक्षुपुदाहतविगलित सहकाररसेन सिक्तदेहस्य | कीरस्य मार्गलग्नं भ्रमरकुलं भ्रमति गन्धान्धम् ॥ ६६ ॥ चञ्चुपुटेन आहतः अतएव विगलितः प्रस्रुतो यः सहकारस्तद्रसेन । निरनुरोधस्य कीरस्य कीर्तनेन - स्वार्थवशाया नास्याश्चक्षुः प्रीतिः, अत एवानया पूर्वप्रणयी परित्यक्त इति हेला सूच्यते । सहकारे चञ्चुपुढाहतेत्यादि विशेषणेन - छलबलप्रयोगैरनया पूर्वप्रणयी परिभूतस्ततोपि सुजनेन तेन अशेषं मण्डनादिकमेव वितीर्णमिति तत्सौजन्यं नायिकायाश्च दुःशीलत्वं सूच्यते । गन्धान्धमित्यनेन - कामान्धतया गुणपरिचयशून्यम्, भ्रमरेत्यनेन - स्वभावत एव कामिनीषु भ्रमणशीलमिति नास्य गुणपरिज्ञानपाटवमित्यवज्ञा व्यज्यते । तथा च- 'अस्थिरप्रणयां बहिरेव दर्शनीयामिमां लोका मुधैवानुसरन्ति । निरनुरोधा नेयमेवंसंमानोचिता । अभिनन्दनीयगुणाया मम प्रणयपरिचयमग्रतस्त्वमनुभविप्यसि' इति शृण्वन्तं कान्तं प्रत्यभिव्यज्यते । रात्रिनिवासं प्रार्थयमानमुद्भिन्नमदनाङ्कुरं पथिकं प्रति प्रोषितपतिका स्वयं दूतिका साकूतमाह Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446