Book Title: Gathasaptashati
Author(s): Nathuram Shastri
Publisher: Pandurang Javji

View full book text
Previous | Next

Page 441
________________ ३५६ काव्यमाला | कस्याश्चिदनुरागातिशयं प्रतिपाद्य नायकमुत्कण्ठयन्ती दूती सवैदग्ध्योपालम्भमाह - कह तंपि तुइ ण णाअं जह सा आसन्दिआण बहुआणम् । काऊण उच्चवचिअं तुह दंसणलेहला पडिआ ॥ ९७ ॥ [ कथं तदपि त्वया न ज्ञातं यथा सा आसन्दिकानां बहूनाम् । कृत्वा उच्चावचिकां तव दर्शनलालसा पतिता ॥ ] किं ते तदपि न विदितं ह्यासन्दीनां यथा बहूनां सा । उच्चावचिकां कृत्वा तव दर्शनलालसा पतिता ॥ ९७ ॥ तवं दर्शनलालसा सा बहूनाम् आसन्दीनाम् । उच्चावचिकाम् एकस्या उपरि एकां विन्यस्य उन्नतामारोहणीं कृत्वा पतिता । किं त्वया तदपि न ज्ञातम् ? आस्यतेऽस्यामिति वेत्रासनमासन्दीव्यमरटीका । क्षुद्रखङ्घा 'पीठिका' इति मेदिनी । त्वद्दर्शनार्थमुतुझे जालवातायने प्राप्तुमप्रभवन्ती सेयं बहुभिः पीठिकाभिर्निःश्रेयणीं विधाय तस्या उच्चावचत्वात्पपात, एतावांस्त्वय्यस्या अनुराग इत्याशयः । उच्चावचपदेन - सापि विषमा, यथावन्न निर्मितेति दर्शननिमित्तेन संभ्रमेणानुरागातिशयः सूच्यते । एवं च भवदवलोकनोत्सवमत्ता निजनिपातमप्यविगणयन्ती सेयमेवं त्वय्यनुरक्ता । भवांस्तु तत्प्रमोदनं दूरमास्तां तस्या विपत्तिमपि न परिजानाति, अहो ते प्रणयपरिपाटीति नायकं प्रत्युपालम्भो ध्वन्यते । 'कस्याश्चित्सखी सख्या अनुरागातिशयं नायकविषये सूचयन्ती नायकाग्रे कथयति' इत्यप्रौढमवतरणं कुलबालदेवस्य । रममाणं कञ्चिद्विटं श्रावयन्सहृदयः कश्चिन्निजसहचरं प्रति सपरिहासमाह - चोराण कामुआण अ पामरपहिआण कुक्कुडो वअइ । रे र मह वह वाहयह एत्थ तणुआअए रअणी ॥ ९८ ॥ [ चौरान्कामुकांश्च पामरपधिकांश्च कुक्कुटो वदति । रे रमत वहत वाहयत अत्र तन्वी भवति रजनी ॥ ] चौरान्कामुकलोकान्पामरपधिकांश्च कुक्कुटो वदति । तन्वी भवति निशेयं वहताऽऽरमताऽत्र वाहयत ॥ ९८ ॥ तन्वी भवति, स्वल्पावशिष्यत इत्यर्थः । आवश्यकत्वेपि मूले चौरानित्यादीनां वहतेत्यादिभिः सह यथायोगमन्वयः, इह तु यथासंख्यम् । अलंकारश्च सः । चोरितवस्तूनि नयतेति चौरान, आ ( समन्तात् बाढमिति यावत् ) रमध्वमिति कामुकलोकानू, बलीवर्द्दन् भारशकटं वाहयतेति मार्गगामिनः पामरान् प्रति, वदतीत्यर्थः । 'रात्रिशेषे कुकुटः शब्दं करोतीति कुक्कुटानां खाभाविकं रूपम् । तच्छ्रुत्वा तस्य प्रयोजनमुत्प्रेक्ष्य विवृणोति कश्चित्' इत्यप्रौढमिव कुलबालदेवः । रमहेति प्राकृतवत्संस्कृतेपि रमतेत्येव कुलबालकृता छाया तु च्युतसंस्कृतिरेव । प्रणयकोपामिनयाय परस्परमभाषमाणावपि मिथः कटाक्षविनिमय एव युगपद्विहसितवन्तौ 'कृत्रिमकोपतया त्वमेव पूर्वमहसीः' इति च मिथो विवदमानौ नायिकानायको बीक्ष्य सखी सखीमाह - : Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 439 440 441 442 443 444 445 446