Book Title: Gathasaptashati
Author(s): Nathuram Shastri
Publisher: Pandurang Javji

View full book text
Previous | Next

Page 443
________________ ३५८ काव्यमाला । मन्त्रः प्रेयसीमुखदर्शनाजातभावान्तरतया स्वयं विस्खलतीति भावप्राबल्यं सूच्यते । तथाच-चराचरनायको भगवान्भूतभावनोपि प्रियाप्रेमानुवृत्त्या तन्मुखप्रतिबिम्बमात्रमप्यवलोक्य प्रशमप्रधाने संध्योपासनसमयेपि तद्गतचित्तो भवति, किं वा प्रियां प्रमोदयितुं तादृश इव भवति । त्वं तु रसमयेपि समये सततमनुवर्तमानामपि प्रेयसी न यथावदनुरजयसि । अहो ते रसिकतेति नायकं प्रत्युपालम्भोभिव्यज्यते । त्वत्प्रेमव. शंवदामेनां धीरोपि त्वं सर्वसमयेपि रसिकतयैव सततमनुवर्तस्वेति चरमं व्यङ्ग्यम् । 'समाप्तौ हरनमस्काररूपं मङ्गलमाचरति' इति गङ्गाधरः । 'हरस्यापि गौरीमुखकमलप्र. तिबिम्बं दृष्ट्वा सन्ध्यारूपनित्यकर्माङ्गमन्त्रलोपो भवति किं पुनरस्मदादेलोकस्य प्रियासां. निध्ये व्याकुलचित्ततेति सर्वथा स्त्रीसङ्गः परिहरणीयः' इति तात्पर्यार्थकल्पनं तु गङ्गाधरस्य गाथाकारहृदयप्रतिकूलमेव । 'अमिश्र पाउअकव्वम्' इति पद्येन खारब्धस्य प्राकृतकाव्यस्य कामतत्त्वनिर्भरतां प्रतिज्ञाय उपसंहारे सर्वथा तदुन्मूलनस्य सुस्पष्टं विरुद्धत्वात् । 'सर्वथा स्त्रीसङ्गः परिहरणीयः' इत्यनेन-आलम्बननिरासात् शृङ्गारः सुस्पष्टमुन्मूलित एव । तस्मात् प्रशमानुगुणचित्तेनापि सा शिक्षा ग्रन्थान्तरतोऽवसेया, न गाथासप्तशतीतः । कान्तासंमिततयोपदेशस्तु मध्ये मध्ये खयं ग्रन्थकारेणैव सूचित इति ग्रन्थकारोद्देश्यविफलनमनुचितमेवेत्यलमन्ते विरसविवादेन । अनया गाथया पूर्वोक्तध्वनि स्फुटयन् शिवस्य सायंसन्ध्योपासनवर्णनेन ग्रन्थसमाप्तिमपि सूचयति गाथाकारः । 'पसुवइणो रोसारुणे' त्यादिना प्रातःसन्ध्यावर्णनादारम्भः सूचितः । अन्ते तु तेनेव क्रमेण सायंसन्ध्यावर्णनात्समाप्तिः सूचितेत्यलं मार्मिकेषु । उपसंहरति इअ सिरिहालविरइए पाउअकवम्मि सत्तसए । सत्तमसअं समत्तं गाहाण सहावरमणिजम् ॥ १०१॥ [इति श्रीहालविरचिते प्राकृतकाव्ये सप्तशते । सप्तमशतं समाप्तं गाथानां स्वभावरमणीयम् ॥] नरपालहालरचिते प्राकृतकाव्येऽत्र सप्तशते । सप्तमशतं समाप्तं गाथानां वै स्वभावरमणीयम् ॥ १०१॥ सप्तशते सप्तशतीरूपे प्राकृतकाव्ये । 'हाल इति राज्ञः शालिवाहनस्य संज्ञान्तरम् इति गङ्गाधरः। गङ्गाधरकृतटीकामनु टीका निर्मिता सेयम् । अथ लक्षिता त्रुटी काप्यघटीह स्तोक विस्तारः ॥ * ॥ इति श्रीजयपुरमहाराजाधिराजसंमानिततैलङ्गभटान्ववायसंभूत-देवर्षिभट्टश्री. ___ मथुरानाथशास्त्रिसाहित्याचार्यनिर्मिता संस्कृतगाथासप्तशतीटीका व्यङ्ग्यसर्वकषा समाप्ता। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 441 442 443 444 445 446