Book Title: Gathasaptashati
Author(s): Nathuram Shastri
Publisher: Pandurang Javji

View full book text
Previous | Next

Page 444
________________ संस्कृतगाधानिबन्धुः परिचयः । तैलङ्गपुङ्गवानामाङ्गिरसायास्य गौतमेतिसत्प्रवरः । देववङ्कहो वंशो भूपालपूजितो जयति ॥ १ ॥ तस्मिन्नरिपरिभावी वावीजीदीक्षितात्तृतीयोभूत् । श्रीमान्मण्डलनामा सम्पत्सौभाग्यभाग्यनिधिः ॥ २ ॥ बान्धवदेशन रेशो गुरवे यस्मै प्रयागकृतधाम्ने । ग्रामान्देवर्षिमुखान् शतं व्यतारीत्ससंमानम् ॥ ३ ॥ तस्मिन् वंशे श्रीमान् श्रीकृष्णः कविकलानिधिर्जातः । बुधसिंह बुन्दिभर्तुर्निकटाद्योऽनीयता ऽम्बरेशेनं ॥ ४ ॥ 'सुकवि' 'कलानिधि' बिरुदोऽलंकारकलानिधेः कृते प्रददे । जयपुरपुरनिर्मात्रा जयसिंहेनाम्बरावनीभर्त्रा ॥ ५ ॥ 'वाणी' 'भारत' विरुदस्तत्तनयो द्वारकानाथः । माधवसिंहमहीन्द्रादेष कवीन्द्राधिपो ययौ मानम् ॥ ६ ॥ श्रीमत्पृथ्वीसिंहात्प्रतापभूपाच्च लब्ध'वाणि' विरुदस्य । ब्रजभाषामयकविता यस्य सुकवितानवं सूते ॥ ७ ॥ तत्तनयो व्रजपालः प्रतापभूपालमाननीयो यः । नवसंगीतग्रन्थं विधाय समियाय भूरिसंमानम् ॥ ८ ॥ तत्तनयानां ज्येष्ठो मण्डनमिव मण्डनो बभूव विदाम् । कविता तोषिनरेन्द्रा भूरिगजेन्द्रान्ददुर्यस्मै ॥ ९ ॥ यो राजनीतिकुशलो विपुलोन्नाहेषु राजसु प्रसितः । जयसिंहभूमि भर्तुर्लभे ग्रामादिसंमानम् ॥ १० ॥ प्रज्ञाचक्षुर्लक्ष्मण भट्टोभूत्तत्सुतः सुदक्षतमः । रामनरेन्द्रादुन्दीभर्तुर्योऽविन्दत ग्रामम् ॥ ११ ॥ जनितः श्रीमलक्ष्मीनाथसुत- द्वारकानाथैः । मथुरानाथः सोयं दत्तकपौत्रोऽभवत्तस्य ॥ १२ ॥ येन हि 'जयपुर वैभव'मथ किल 'साहित्यवैभवं' सृजता । 'कवितानिकुञ्ज' महिता नवछन्दोबन्धरीतिराकलिता ॥ १३ ॥ १ आम्बेराधीशेन श्रीजयसिंहभूपालेन । २ एतन्नामा ग्रन्थो जयसिंहाज्ञया निर्मितः । अयं हि काव्यप्रकाशादिवत् साहित्यस्य व्रजभाषामय भाकरग्रन्थः । एतत्परिचयः 'साहित्यवैभवे' द्रष्टव्यः । ३ कविताभिमानिनां सुकवीनां तानवं कृशताम् । ४ 'कविता निकुञ्जस्य' भागद्वयमिदं बम्बई निर्णयसागरे मुद्रितम् । प्रथमे जयपुरराजवंशवर्णनपूर्व तद्राज्यस्य सचित्रं वर्णनमन्ये च बहवो विषयाः, द्वितीये कवित्त-सवैयादि हिन्दीछन्दोभिः ऋतु - नवरस - अन्योक्ति - समीक्षा-नीति- उर्दूप्रभृतिसर्वभाषाच्छन्दो- वर्तमान भारत- विहारिसप्तशतीप्रभृतयो नानाविषयाः सन्ति । 'मथुरानाथशास्त्री रेसिडेन्सीरोड जयपुर ' तः प्राप्यमिदं पुस्तकम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 442 443 444 445 446