Book Title: Gathasaptashati
Author(s): Nathuram Shastri
Publisher: Pandurang Javji
View full book text
________________
३४६
काव्यमाला।
निःशेषितधनत्वेपि परिसरमत्यजतो भुजङ्गान् शरद्घनवर्णनव्याजेन निन्दन्ती वेश्यासखी तां प्रति साकूतमाह
उअ सिन्धवपवअसच्छहाई धुअतूलपुञ्जसरिसाई । सोहन्ति सुअणु मुक्कोअआई सरए सिअब्भाइं ॥ ७९ ॥ [पश्य सैन्धवपर्वतसदृक्षाणि धुततूलपुञ्जसदृशानि ।
शोभन्ते सुतनु मुक्तोदकानि शरदि सिताभ्राणि ॥] सैन्धवपर्वततुल्यानि पश्य धुततूलपुत्सदृशानि ।
मुक्तोदकानि सुतनो शरदि सिताभ्राणि शोभन्ते ॥ ७९ ॥ पर्वतसादृश्येन-कठोरत्वं जडत्वं च, सैन्धवेत्यनेन द्रुतद्रवशालितया अस्थिरमनस्कत्वं च सूच्यते । तूलसादृश्येन-स्वाभाविकं लाधवम् , धुतेत्यनेन बहुशस्तिरस्कृतत्वं च द्योत्यते । अभ्रपदेन अत्युच्चैरपि रिक्तैर्मेधैर्यथा न फलसिद्धिस्तथा कोलीन्यादिमहिना उन्नतैरपि निर्धनैर्जनैः किं नः फलमिति सूच्यते । शोभन्त इति साकूतोक्तिः । निःशेषितधना इमे न भान्तीति व्यङ्ग्योर्थः । मुक्तोदकपदेन-समापितधनत्वं तु स्फुटमेव । तथा च सुतनु इत्यामन्त्रणेन-संप्रति नवयौवने खाभाविकसौन्दर्यशालिनी त्वं निःशेषितधनतयाऽस्मदादीनामनभिप्रेतेषु भुजङ्गेष्वेतेषु बाह्यसौष्ठवमात्रमालोक्य न प्रसका भविष्यसीति सख्या ध्वन्यते । 'सुअण' इति पाठे तु सुजनेति पथिकसंबुद्धिः । तथा च प्रावृष्टूपरिसमाह्या मार्गाणां यात्राक्षमतया साम्प्रतं देशान्तरगमनेन द्रव्यादिकमर्जनीयम् , न निश्चेष्टतया स्थातव्यमिति हितचिन्तकः कश्चित्तं प्रति भझ्या सूचयतीति तात्पर्यार्थः । 'वर्षागमनेन दुःखितां नायिका शरत्कालोपगमेन स शीघ्रमायास्यतीति समाश्वासयन्ती सखीदमाह' इति गङ्गाधरः।
त्वां सुखयितुं सततमनुवर्तमानामपि मत्सखीं कुशलप्रश्नादिनाप्यसंभावयन् हन्त हन्त खार्थमात्रप्रवणस्त्वं सर्वथा पराङ्मुखोसीति नायकमुपालभमाना नायिकासखी अन्यापदेशविधयाह
आउच्छन्ति सिरेहिँ विवलिएहिँ उअ खंडिएहिँ णिजन्ता। णिप्पच्छिमवलिअपलोइएहिँ महिसा कुडङ्गाई ।। ८० ॥ . [आपृच्छन्ति शिरोभिर्विवलितैः पश्य [खङ्गिकैः] नीयमानाः ।
निःपश्चिमवलितप्रलोकितैर्महिषाः कुलान् ॥] पश्य शिरोभिर्वलितैः कौटकिकैर्नीयमाना हि ।
आपृच्छन्ते कुआनि:पश्चिमवलितवीक्षणैर्महिषाः ॥ ८॥ वलितैः पृष्ठतोऽवलोकनार्थ परावर्तितैः शिरोभिः ( उपलक्षिताः) 'खडि(टि)एहिं' कौटकिकैः पशुहिंसाजीवैः 'खटीक' इति भाषा । नीयमाना महिषा निःपश्चिमानि १ 'खटिएहिं' इति स्यात् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446