Book Title: Gathasaptashati
Author(s): Nathuram Shastri
Publisher: Pandurang Javji
View full book text
________________
३४४
'काव्यमाला |
अत्थकरुसणं खणपसिजणं अलिअवथणणिब्बन्धो । उम्मच्छरसंतावो पुत्तअ पअवी सिणेहस्स ॥ ७५ ॥ [ आकस्मिकशेषकरणं क्षणप्रसादनमलीकवचननिर्बन्धः । उन्मत्सरसंतापः पुत्रक पदवी स्नेहस्य ॥ ] अयाकस्मिकरोषः क्षणप्रसादो ह्यलीकनिर्बन्धः । उन्मत्सरसंतापः पुत्र स्नेहस्य पदवीयम् ॥ ७५ ॥
अत्त्थक्केति आकस्मिके अद्भुते वा देशी । अकस्मादेव रोषकरणं क्षण एवं प्रसादः ( अपरस्य प्रसादनं स्वयं प्रसदनं च ) मुधैव निर्बन्धः आग्रहः । अथवा अलीकवचनेषु अलीकवचनैर्वा आग्रहः । सपत्न्यादिषु मात्सर्यहेतुकः संतापः । इयं स्नेहस्य पदवी मार्गः । 'उन्मच्छरेति बहुले' इति गङ्गाधरः । तन्मते - बहुलः संताप इत्यर्थः । 'उन्मूर्च्छनसंतापः' इति पाठं खीकृत्य 'उन्मूर्च्छनं प्रतिकूलवाचा प्रकोपनम्' इति गङ्गाधरतोषि प्राचीना टीका । पुत्रेत्यामन्त्रणेन - त्वं स्नेहपात्रमिति बह्ननुभवाहं हितं तवोपदिशामीति व्यज्यते । एवं च - सेयमनुरागातिशयवशादेव त्वयि नानाविधान्मानमार्गानवलम्बते । नात्र विरक्तेर्गन्धोपीति स्नेहातिशयशालिन्यामेतस्यां प्रेमविदग्धचर्ययैव व्यवहर्तव्यमिति दूत्याश्वरमं व्यङ्ग्यम् ।
जनसंकुले स्थले निभृतमन्योन्यालोकने संपन्नेपि कटाक्षादिमविक्षिपन्तीं नायिकामननुरक्तेति संदिहानं नायकं प्रोत्साहयन्ती दूती सवैदग्ध्यमाह-
पिञ्जर कण्णञ्जलिहिं जणरवमिलिअं वि तुज्झ संलावम् । दुद्धं जणसंमिलिअं सा बाला राअहंसि च ।। ७६ ।। [ पिबति कर्णाञ्जलिभिर्जनरवमिलितमपि तव संलापम् । दुग्धं जलसंमिलितं सा बाला राजहंसीव ॥ ] कर्णाञ्जलिभिर्निपिबति जनरवमिलितमपि हि तव संलापम् । दुग्धं जलसंमिलितं सा बाला राजहंसीव ॥ ७६ ॥
'अत्र पिबतीति कर्त्रर्थे पीयत इति कर्मप्रत्ययः । प्राकृते लिङ्गवचनमतन्त्रमित्याद्यनुशासनात् । अथवा सा बाला राजहंसीवेति प्रथमा तया राजहंस्येवेति तृतीयार्थे । तथा च पीयते इति यथाश्रुतमेव व्याख्येम् ।' इति गङ्गाधरटीका । वस्तुतस्तु 'पिज्जइ' पीयते इत्यत्र कर्त्रर्थः पीड् पाने धातुः । संलापं पिबतीत्यस्य सातिशयं शृणोतीति लक्ष्यम्, तेन च प्रेमातिशयो व्यज्यते । जलसंमिलितं दुग्धमिवेत्यनेन - अन्येषां वचनानामपेक्षया त्वद्वचने कियद् गौरवमिति प्रोत्साहनं ध्वन्यते । राजहंसीवेत्युपमयाहंसी यथा नीरक्षीरविवेके परमचतुरा तथा कोलाहलमिलितस्यापि भवद्वचसः प्रेमा'तिशयवशात्त्वदन्यवचोवैजात्यं स्फुटमवगच्छन्ती सा परमविदग्धा, अन्यैरसंपर्काद्विशुद्धा, उत्तमतयाऽविशय कामनीया चेति ध्वन्यते । बालेत्यनेन - भवन्तं दृष्ट्वापि जन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446