Book Title: Gathasaptashati
Author(s): Nathuram Shastri
Publisher: Pandurang Javji

View full book text
Previous | Next

Page 432
________________ ७ शतकम् ] संकृतगाथासप्तशती। ३४७ अन्तिमानि वलितानि परावर्तितानि च यानि वीक्षणानि अवलोकनानि तैः (तद्वारा) कुञान् आपृच्छन्ते गमनानुमतिप्रश्नं कुर्वन्तीत्यर्थः । पशुषु निकृष्टा महिषा अपि येषु कुञ्जषु निर्भरनिदाघमध्याह्ने निबिडच्छायामुपलभ्य सुखमासादितवन्तस्तेपि तेषां कुञ्जानां वियोगवेलायां दुःखमनुभवन्ति । अत एव विषादनीरवं पुनः पुनः परावृत्त्य पश्यन्ति । रसिकंमन्यस्त्वं तु ततोप्यधमोसि, यत्तां निष्करुणमेवमवमन्यसे इति सख्या ध्वन्यते। कौटकिकैनीयमाना इत्यनेन-हिंसाथै बलादाकृष्टाः परवशा अपि ते कृतज्ञतां न व्यस्माघुर्भवांस्तु स्वतन्त्रोपि न तो प्रश्नमात्रेणापि संमानितवानिति गूढमुपालभ्यते । 'संकेतस्थानकुञ्जानां महिषसांनिध्येन दुरासदत्वाविद्यन्तं नायकं खिद्यन्ती वा नायिका प्रोत्साहयन्ती काचिदाह' इत्यवतरणं विधाय-'खडिएहिं' इत्यस्य 'खनिकैः' इति अदत्तकोषतया अस्पष्टेव गङ्गाधरकृता छाया । किन्तु 'खटिएहिं तत्रोचितः पाठो यस्यार्थः पशुहिंसाजीवी। महिषापगमेन कुजा इदानीं निराबाधसंकेतस्थानतामुपगता इति तत्तात्पर्यम् । आपृच्छन्तीति तच्छायाप्रयोगस्तु 'आङि नुप्रच्छयोः' इत्यनवमर्शनमूलको विच्छाय एव । मण्डिताखखिलासु महिलासु दारिद्यकृतेन भण्डनाभावेन विषीदन्तीं काञ्चन सुन्दरी समाश्वासयन्ती काचिद् ज्ञातिपुरन्ध्री आह पुसउ मुहं ता पुत्ति अ वाहोअरणं विसेसरमणिजम् । मा एअं चिअ मुहमण्डणं त्ति सो काहिइ पुणो वि ॥ ८१ ॥ [प्रोज्छस्व मुखं तत्पुत्रि च (पुत्रिके) बाष्पोपकरणं विशेषरमणीयम् । ___ मा इदमेव मुखमण्डनमिति करिष्यसि पुनरपि ॥] प्रोञ्छायि पुत्रि वदनं विशेषरमणीयमश्रुमण्डनकम् । इदमेव हि मुखमण्डनमिति मा पुनरपि करिष्यसि प्रसभम् ॥८॥ अयि पुत्रि! अश्रु एव मण्डनं मण्डनोपकरणं यस्य तथात्वेपि विशेषरमणीयं वदनं प्रोञ्छ माय । किंवा, वदनं प्रोञ्छ । सहजसुन्दर्यास्तव अश्रु एव मण्डनं विशेषरमणीयं भवति । परम् , इदमेव मुखमण्डनमिति मत्वा पुनरपि नेदं करिष्यसि, नेतः परं रोदितव्यमित्यर्थः। तथा च नैसर्गिकसौन्दर्यमण्डनमण्डितायास्तव यत्किञ्चिदपि मण्डनायितं भवति । पश्य, वदनविधुविच्छुरितास्तव बाष्पबिन्दवोपि रामणीयकमेव संपाद. यन्ति, ततः किंवा फलं मोघेन मण्डनान्तरेणेत्याशयः । पुत्रीत्यनेन-वात्सल्यभाजनतया त्वं हितमुपदिश्यसे न प्रतार्यस इत्यभिव्यज्यते । 'निजदारियेणाश्रु विमुञ्चन्ती नायिकां समाश्वासयन्ती दूती आह' इति गङ्गाधरः । दरिद्रेयं मण्डनमिच्छति, तथा च मण्डनादिदाने धनिनां सुखसाध्येति तटस्थं प्रति सूचयन्त्या दूत्या वा उक्तिः। गङ्गाधरच्छायायां प्रोञ्छस्वेत्यात्मनेपदप्रयोगस्तु विचारणीय एव । मार्गे कर्दमभयादमिसारे संकुचतोर्नायिकानायकयोः प्रबोधार्थ दूती आह मज्झे पअणुअपङ्क अवहोवासेसु साणचिक्खिल्लम् । गामस्स सीससीमन्तअं व रच्छामुहं जाअम् ।। ८२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446