Book Title: Gathasaptashati
Author(s): Nathuram Shastri
Publisher: Pandurang Javji
View full book text
________________
७ शतकम् ]
संस्कृतगाथासप्तशती ।
३४९
"
'त्वं भीरुरसि यत्तस्याः पत्युवरताडम्बरं दृष्ट्वा भयाकुलत्वान्न तामभिसरसि' इति सभर्त्सनं कञ्चिदुत्ते जयन्ती दूती अन्यापदेशविधयाह-
जुज्झचवेडामोडिअजञ्जरकण्णस्स जुण्णमल्लस्स ।
कच्छाबन्धो च भीरुमल्लहिअअं समुक्खणइ ॥ ८४ ॥ [ युद्धचपेटामोटितजर्जरकर्णस्य जीर्णमल्लस्य ।
कक्षाबन्ध एव भीरुमलहृदयं समुत्खनति ॥ ] युद्धचपेटामोटितजर्जरकर्णस्य जीर्णमल्लस्य ।
कक्षाबन्धनमेव हि समुत्खनति भीरुमलहृदयानि ॥ ८४ ॥ मल्लयुद्धकालिकचपेटाभिः आमोटितो आमर्दितौ, अत एव नीरक्तसंचारत्वात्पिण्डीकृतप्रायौ कर्णौ यस्य तादृशस्य वृद्धमलस्य कक्षाबन्धनमेव मल्लकच्छबन्धनमेव अन्येषाँ भीरुमलानां हृदयानि समुत्खनति विद्रावयति । जर्जरकर्णत्वादिना दृढमलतामनुमिन्वन्तः कच्छबन्धनाटोपं दृष्ट्वा 'न जाने अग्रे कीदृग्बलं कौशलं च दर्शयेत्' इति भावयन्तो भीता भवन्तीत्याशयः । परिधानीयस्याधोवस्त्रस्य पृष्ठतो निहिताञ्चलं कक्षा - 'परिधानाद्बहिःकक्षा निबद्धा ह्यासुरी भवेत्' इति योगियाज्ञवल्क्यः । हृदयानीति बहुवचनेन - बहवोपि मल्लाभासास्ततोऽतितरां बिभ्यतीति सूच्यते । तथा च जीर्णेत्यनेन - पूर्वं तत्पतिः शूरः समर्थश्चासीत् । संप्रति वार्धक्येन क्षीणशक्तिरत एव बाह्याडम्बरं दृष्ट्वा ततो न भेतव्यम् । वृद्धतया तस्या एव नासौ रोचते । ततश्च तरुणे बलशालिनि च त्वयि बलावलुब्धा साऽवश्यमनुरक्ता भवेत् । अतो भीरुतामपहाय निर्भयं तत्राभियोक्तव्यमिति नायकं प्रति दूत्याभिव्यज्यते । 'आरभटीदर्शनेनैव भीरवः सुतरां पलायन्ते, अतो भीरुता न कर्तव्येति कश्चित्कंचिद्बोधयति' इति गङ्गाधरः ।
- सहजसौन्दर्यशालिनी गुणगणमण्डिता च काचिन्मलपत्नी प्रियतमापमानितापि न · लज्जिता, प्रत्युत प्रसादमेवाप । तां भेदयन्ती दूत्याह -
आणतं तेण तुमं पइणो पहएण पडहसण |
मल्लि ण लञ्जसि णच्चसि दोहग्गे पाअडिजन्ते ॥ ८५ ॥ [ आज्ञप्तं तेन स्वां पत्या प्रहतेन पटहशब्देन ।
मल्लि न लज्जसे नृत्यसि दौर्भाग्ये प्रकटीक्रियमाणे ॥ ] आज्ञप्तं तेन त्वां पत्या प्रहतेन पटहशब्देन ।
दौर्भाग्ये प्रकटीक्रियमाणे नृत्यसि न लजसे मल्लि ॥ ८५ ॥ पत्या भर्त्रा प्रहृतेन पटहशब्देन ताडितस्य पटहस्य शब्देनेत्यर्थः । त्वां प्रति यद् दौर्भाग्यमाज्ञप्तं तस्मिन्दौर्भाग्ये प्रकटीक्रियमाणेपि न लज्जसे प्रत्युत नृत्यसि । डिण्डिम - घोषपूर्वकं सर्वत्र तव दौर्भाग्यं तेन प्रसेधितं तथापि त्वं न लज्जस इत्यर्थः । तेनेत्यनेन -- पूर्वमपि शतधा कृतापराधत्वेपि येन त्वमेवाsपमानिता, स हि प्रसिद्धस्ते पतिरिति सूच्यते । अत एव स रक्षामात्रकर्ता पतिरेव न तु प्रियतम इति पतिपदेन ध्वन्यते ।
सं. गा. ३०
Jain Education International
For Private & Personal Use Only.
www.jainelibrary.org
Page Navigation
1 ... 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446