Book Title: Gathasaptashati
Author(s): Nathuram Shastri
Publisher: Pandurang Javji
View full book text
________________
३४८
काव्यमाला।
[मध्ये प्रतनु[क]पङ्कमुभयोः पार्श्वयोः इयानकर्दमम् ।
ग्रामस्य शीर्षसीमन्तमिव रथ्यामुखं जातम् ॥ ] . मध्ये प्रतनुकपकं घुभयोः संश्यानकर्दम तटयोः।
ग्रामस्य शीर्षसीमन्तकमिव रथ्यामुखं जातम् ॥ ८२॥ मध्यभागे प्रतनुकः स्वल्पः पङ्को यस्मिन् । तथा उभयोस्तटयोः (पार्श्वयोः) संश्यानकर्दमं शुष्कपङ्कम् । रथ्यामुखं ग्रामस्य शीर्षगतं सीमन्तकमिव भागद्वय विभक्तः केशपाश इव जातम् । रथ्योभयपार्श्वयोः शुष्ककर्दमत्वात् दिवसदृष्टेन मार्गण रात्रावागन्तव्यमिति दूत्यास्तात्पर्यम् । 'प्रतनु स्वल्पं कं जलं यस्मिन्नेतादृशः पङ्को यत्र तादृशम्' इति गङ्गाधरः।
चिरविरहोत्तरं प्रेयसीप्राप्तौ दुर्दमा भवति विलम्बजनिता तत्समागमोत्कण्ठेति स्वस्य सहृदयतां सूचयन्नागरिकः सहचरमाह
अवरह्लागअजामाउअस्स विउणेइ मोहणुक्कण्ठम् । बहुआइ घरपलोहरमजणपिसुणो वलअसद्दो ॥ ८३ ॥ [अपरालागतजामातुर्द्विगुणयति मोहनोत्कण्ठाम् ।
वध्वा गृहपश्चाद्भागमजनपिशुनो वलयशब्दः ॥] जामातुर्द्विगुणयतेऽपरालसमितस्य मोहनोत्कण्ठाम् ।
गृहपृष्ठभागमजनपिशुनो वध्वा वलयशब्दः॥८३ ॥ अपराहे समितस्य समागतस्य जामातुः मोहनोत्कण्ठां सुरतोत्कण्ठाम् । गृहस्य पृष्ठभाग एव यन्मजनम् अङ्गसंमार्जनं शयनं वा तत्सूचकः । अपराह्नसमितेत्यनेन-दिवसे श्वश्रूप्रभृतिसांनिध्याद्रात्रावेव समागमसौकर्यमिति तावत्कालं प्रतीक्षणेनोत्कण्ठातिशयः पोष्यते। द्विगुणयतीत्यनेन-चिरविरहात्समागमोत्कण्ठा त्वासीदेव परं चिरकालाद्धृदयदेशमधितिष्ठन्त्याः प्रेयस्या मजनकालिकविवसनाङ्गभावनया सा भृशमुज्जृम्भत इति ध्वन्यते । गृहपृष्ठभागेत्यनेन-अतिसमीप एव सा विजनगता तिष्ठतीत्युत्कण्ठा संव_ते। पिशुनेत्यनेन शब्दशक्त्यनुरणनवशात्-कर्णेजपो यथा वैगुण्यसूचनया सह हृदि क्लेशमप्युत्पादयति तथा वलयशब्दोपि यथाकथंचिदवरुद्धोत्कण्ठस्य मानसस्य वेदनां जनयतीति सूच्यते । वलयानां शब्दः सुरतसामयिकं वलयशब्दं नायकहृदि स्मारयति । अतएव मोहनस्यैवोत्कण्ठा द्विगुणीभूतेत्याशयः । 'काचन नायिका पितृगृहे स्थिता क्वचिदासता । तद्भर्तरि समागते व्याकुलचित्तं नायकं समादधती दूत्याह' इति गङ्गाधरावतरणम् । 'दिनसत्त्वे जामाता श्वश्वादिसांनिध्येन पश्चाद्गृहे न गमिष्यति। सा तु दिनशेष एव तत्र स्वपिति । त्वया तत्र गन्तव्यं तत्र सा सुलभेति' तत्तात्पर्यम् । जामातुर्मोहनोत्कण्ठाद्विगुणीकरणस्य वारस्यं नात्र भाति । द्विगुणीकृतमोहनोत्कण्ठस्य पत्युः पुरस्तादेव तादृशवर्णनमरमणीयं चेति मन्मतिः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446