Book Title: Gathasaptashati
Author(s): Nathuram Shastri
Publisher: Pandurang Javji

View full book text
Previous | Next

Page 430
________________ ७ शतकम् ] संस्कृतगाथासप्तशती । ३४५ संमर्दवशात्संकुचन्ती सा नैसर्गिक मौग्ध्यवशान्न कटाक्षादिद्वारा त्वदाकर्षणयत्नं कृतवतीति नायिकाया निरुपाधिकः प्रेमाभिव्यज्यते । अञ्जलिपदेन - अतिशयपिपासितस्य चेष्टां संसूच्य नायकवचः श्रवणे सुभृशोत्कण्ठा ध्वन्यते । एवं च त्वद्दर्शनार्थं पूर्वत एव परममुत्कण्ठिता सा कोलाहलमिलितमपि भवत्कण्ठरवमाकर्ण्य भवद्भावनानिमीलितनयनं दत्तकर्णतया पुलकितसर्वाङ्गी निश्चलनिश्चेष्टमवतस्थ इति सुभृशमनुरक्ता सा नान्यथा संदेग्धव्येति दूत्याभिव्यज्यते । प्रियतमस्य गुणगणमनुरागवशात्पुनः पुनर्दूतीमभिपृच्छन्तीं नायिकां प्रति काचित्सखी साकूतमाह अइ उज्जुए ण लञ्जसि पुच्छिञ्जन्ती पिअस्स चरिआई । सबङ्गसुरहिणो मरुवअस्स किं कुसुमरिद्धी (दीर्घ) हिं ॥ ७७ ॥ [ अयि ऋजुके न लज्जसे पृच्छन्ती प्रियस्य चरितानि । सर्वाङ्गसुरभेर्मरुवकस्य किं कुसुमर्द्धिभिः ॥ ] ऋजुकेयि लज्जसे नो प्रियस्य चरितानि पृच्छन्ती । कुसुमसमृद्धिमिरिह किं सर्वाङ्गसुरभितस्य मरुबकस्य ॥ ७७ ॥ 'पिण्डीतको मरुबकः प्रस्थपुष्पः फणिज्झकः' इत्यमरः । 'मरुआ' इति ख्यातः । पत्र - शाखादिषु सर्वत्र सुरभितस्य मरुबकस्य सौरभनिमित्ताय पुष्पं यथा नाधिककामनीयं तथा सहजसौन्दर्य सौष्ठवादिगुणगणालंकृतस्य तस्य किंवा गुणान्तरपृच्छाव्यापारेणेति भावः । अयि ऋजुके इत्यनेन - ऋजुकतयैव त्वं पुनः पुनः पृच्छसि तथा च ऋजुका त्वं दूतीसमुदीरितेषु गुणेषु निःसंशयं विश्वसिहि । कृतं प्रश्नायासैरिति सख्याभिव्यज्यते । , सहजस्निग्धलोहितौ हस्तौ विलग्नधातुरागाविति विभ्रमेण वारं वारं प्रक्षालयन्तीं मुग्धा नायिकां निवारयितुं दूती आह मुद्धे अपत्ति अन्ती पवालअङ्कुर अवण्णलोहिअए । गिद्ध अधाउराए कीस सहत्थे पुणो धुअसि ॥ ७८ ॥ [ मुग्धेऽप्रत्ययन्ती प्रवालाङ्कुरवर्णलोहितौ । निधतधातुराग किमिति स्वहस्तौ पुनर्धावयसि ॥ ] अप्रतियती प्रबालाङ्कुररुचिरस्निग्धलोहितौ मुग्धे । निधतधातुरागौ किमिति मुधा धावयसि हस्तौ ॥ ७८ ॥ प्रवालाङ्कुरवत् रुचिरौ स्निग्धौ लोहितौ च स्वहस्तौ निर्धौतधातुरागौ अप्रतियती ( प्रत्ययमकुर्वाणा ) न विश्वसती त्वं मुधा किमिति प्रक्षालयसि । प्रवालस्यापि नवीनोकुर इति स्निग्धत्वलौहित्यातिशयः सूच्यते । नायिकाया मुग्धत्वं तद्धस्तादिषु साहजिक - रागवत्त्वं च संसूच्य तटस्थं नायकमुत्कण्ठयन्त्या दूत्याः सख्या वा सेयमुक्तिः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446