Book Title: Gathasaptashati
Author(s): Nathuram Shastri
Publisher: Pandurang Javji
View full book text
________________
३४२
काव्यमाला ।
__ गुणिनः दान-वैदग्ध्य-वैदुष्येभ्योऽन्येपि गुणा येषाम् ते: विदग्धं निपुणं विज्ञानं येषाम, विज्ञाने निपुणा इति यावत् । अनेन तेषां सर्वतोमुखं वैदग्ध्यमित्यतिशयो ध्वन्यते । अथवा विदग्धाश्च विज्ञानाश्चेति द्वन्द्वः। विदग्धाश्चतुराः, विज्ञाना विशिष्टं ज्ञानं येषाम् । विशिष्टा विद्वांस इत्यर्थः। विचक्षण चतुर। निर्गुणान्विहाय गुणिष्वनुरज्यसीति स्पष्टं ते चातुर्यमिति भावः । तान् पीडयसीति वक्तव्ये सानुरागमसीत्युक्त्या-अनुरक्तो यथा कंचित्पुरुषमाश्रयन्नपि प्रेमवशान्न पीडयति, तथा त्वं तेषां तं क्लेशं नोत्पादयसि येन ते विरज्येयुरिति सूच्यते । तथा च-गुणिनो दारिद्येपि प्रसन्ना एव तिष्ठन्ति, नात्मावसाद गच्छन्तीति मनस्वितातिशयो ध्वन्यते । अथवा-प्रेमिक इव नैतान्परित्यजसीति सततसाहचर्य सूच्यते। विचक्षणेति सुभगं संबोध्य, रे' इति नीचसंबोधनेन वास्तवेनाधममपि त्वं गुणिजनानुरागवशादूरदर्शितया प्रशस्यमिवासीति निन्दाप्रशंसयोः सांकर्य सूच्यते। नायिकामुत्कण्ठयितुं दूती नायिकाया मुखचन्द्रशोभामेवमुपवर्णयति
जइ कोत्तिओ सि सुन्दर सअलतिहीचन्ददंसणसुहाणम् । ता मसिणं मोइज्जन्तकञ्चुअंपेक्खसु मुहं से ॥ ७२ ॥ [यदि कौतुकिकोऽसि सुन्दर सकलतिथिचन्द्रदर्शनसुखानाम् ।
तन्मसृणं मोच्यमानक कं प्रेक्षस्व मुखं तस्याः ॥] सुन्दर यदि कौतुकितोसि सकलतिथिचन्द्रदर्शनसुखानाम् ।
तन्मोच्यमानकञ्चकमीक्षख मुखं मसृणमस्याः॥७२॥ द्वितीयादिसकलतिथिषु यानि चन्द्रदर्शनस्य सुखानि तेषां यदि त्वं कौतुकवानसि तर्हि मसृणं मन्दं यथा स्यात्तथा, शनैः शनैरिति यावत् । मोच्यमानं विसृज्यमानं कञ्चुकवस्त्रं 'कुरती' इति ख्यातं यस्मात् ईदृशम् अस्याः (नायिकायाः) मुखं वीक्षख । परस्पराश्लिष्टो कृतमण्डलायितबाहुलतिकं प्रतिलोमक्रमेण कञ्चुकावतारणसमये मुखमण्डलाक्रमशः कञ्चकावरणापसरणेन चिबुकादिभागस्य क्रमक्रमेण दर्शनं भवति । अन्ते च संपूर्णमपि मुखमण्डलमपगतावरणं भवति । एवंक्रमेण दृष्टचिबुकादिपर्यन्तभागस्य मुखस्य ऋमिकावस्थासु द्वितीयादिति थिषूदितस्य चन्द्रस्य साम्यं कल्पितमित्याशयः ।
सुन्दरेत्यामन्त्रणेन-त्वं तु सौन्दर्याभिमानं वहस्येव परं पश्य तस्याः सौन्दर्यमित्याकूतम् । अथवा-यथा त्वं सुन्दरोसि तथैव त्वत्तोप्यतिशयितसौन्दर्या साप्यस्तीति पश्य ते सौभाग्यमिति प्ररोचनाभिव्यज्यते । 'कोपि साभिलाषः कस्याश्चिन्मुखचन्द्रं वर्णयति' इति गङ्गाधरः। __ ग्रीष्मावसानेऽप्यनागतो दयितः संप्रति प्रतिपथमुज्जृम्भितपयःप्रकर्षासु वर्षासु कथमागच्छेदिति भयविह्वला काचित्समाश्वासयन्तीं सखी प्रत्याह
समविसमणिविसेसा समन्तओ मन्दमन्दसंचारा । अइरा होहिन्ति पहा मणोरहाणं पि दुल्लङ्घा ॥७३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446