Book Title: Gathasaptashati
Author(s): Nathuram Shastri
Publisher: Pandurang Javji
View full book text
________________
३४०
काव्यमाला।
'महं इति निपात आवयोरर्थे न तु ममेति' इति स्पष्टमुक्तम् । एवं सति गङ्गाधरस्वीकृतच्छायायां ममेति पाठः प्रामादिक एवेत्यलम् । विरहवेदनाया विषमत्वं व्यञ्जयन्ती विरहिणी वयस्यामाह
परिओससुन्दराई सुरएसु लहन्ति जाइँ सोक्खाई। ताई चिअ उण विरहे खाउग्गिण्णाइँ कीरन्ति ॥ ६८॥
[परितोषसुन्दराणि सुरतेषु लभन्ते यानि सौख्यानि । __ तान्येव पुनर्विरहे खादितोद्गीर्णानि कुर्वन्ति ॥] परितोषसुन्दराणि हि विभ्रति सुरतेषु यानि सौख्यानि ।
विरहे तान्येव पुनर्भुक्तोद्गीर्णानि कुर्वन्ति ॥ ६८॥ सुरतेषु सर्वविधपरितोषेण सुन्दराणि अभिनन्दनीयानि यानि सौख्यानि महिलाः बिभ्रति धारयन्ति लभन्ते इति यावत् । ताः महिलाः विरहे तान्येव सुखानि पूर्व भुक्तानि पश्चादुद्गीर्णानि कुर्वन्ति । संयोगवेलायां भुक्तानि (पूर्वमनुभूतानि) तान्येव सुखानि विरहे उद्गीर्णानि भवन्तीत्यर्थः । तथा च नेमानि विरहदुःखानि किंतु पूर्व भुक्तानि सुखान्येवोद्गीर्णानि एतद्रूपेण परिणतानीत्यपहत्यलंकारो व्यङ्ग्यः ।' इति गङ्गाधरः । परितोषसुन्दराणीति सुखविशेषणेन-अत्यभिरुचिततया समागमसमये साभिलाषं बहुनि सुखान्यनुभवन्ति कामिन्यः, ततश्च विरहे तान्येव बहुदुःखात्मकानि भवन्तीति पीडातिशयहेतुत्वं व्यज्यते । उद्गिरणसमये यथा उदरस्थमन्यदपि सर्व भुक्तं बहिर्भवति तथा सुरतसुखातिरिक्तान्यन्यान्यपि सुखानि सर्वाणि दुःखात्मकानि भवन्तीत्युद्गीर्णपदेन द्योत्यते।
पीनोन्नतपयोधरायाः कस्याश्चिद्धारशोभावर्णनव्याजेन निजाभिलाषं साकूतं सूच. यन्कश्चिदाह
मग्गं चिअ अलहन्तो हारो पीणुण्णआण थणआणम् । उविग्गो भमइ उरे जमुणाणइफेणपुञ्जो व ॥६९ ॥ [मार्गमिवालभमानो हारः पीनोन्नतयोः स्तनयोः ।
उद्विग्नो भ्रमत्युरसि यमुनानदीफेनपुञ्ज इव ॥] मार्गमिवालभमानो हारः पीनोन्नतस्तनयोः ।
भ्राम्यत्युरसि विचलितो यमुनायाः फेनपुञ्ज इव ॥ ६९ ॥ विचलितः उद्विग्नः, इतस्ततो लुठन्निति यावत् । गण्डशैलयोर्मध्यगतो यमुनाफेनपुनः प्रसरणमार्गमलभमानो यथेतस्ततो भ्राम्यति तथा पीनोन्नतयोः स्तनयोर्मार्गमप्राप्य चञ्चलः सन् हारस्तव वक्षसि विलुठतीत्यर्थः । मार्गस्याप्राप्तौ पीनत्वमुन्नतत्वं च हेतुः । चञ्चलतया भ्रमणे च मार्गस्याप्राप्तिहेतुः। तव तथा पीनौ पयोधरौ यथा हारस्यापि नावकाशः । अत एव स उद्विग्नः सनितस्ततो भ्रमतीत्याशयः। यमुनाफेनसादृश्येन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446