Book Title: Gathasaptashati
Author(s): Nathuram Shastri
Publisher: Pandurang Javji

View full book text
Previous | Next

Page 422
________________ ७ शतकम् ] संस्कृतगाथासप्तशती । ३३७ सा शौर्यावमानं मन्यत इति तस्या मनस्वितातिशयो व्यज्यते । कण्डूयतेति शत्रा - कण्डूयनव्यापारमसमापितवत्येव पुत्रे तस्यास्तावदुःखमिति तदतिशयः सूच्यते । पल्लीमध्य इत्यनेन - सर्वेषां व्याकुलानां समक्ष एव सोयमवमानोऽभूदिति वेदनातिशयः । खपदेन पारम्परिकं स्वत्वं सूच्यते । ततश्च - तादृशधनुस्तक्षणेन पारम्परिको कीर्तिरवलोपितेति दुःखातिशयो योत्यते । ' नायिकान्तरानुरक्तजामातृदर्शनेन खदुहितरमनुशोचन्त व्याधश्वश्रूं दृष्ट्वा काचिदाह' इति गङ्गाधरः । अत्तापदस्य सुप्रसिद्धं श्वश्वर्थं मत्वा सेयं व्याख्या । अत्तापदस्य मात्रर्थोपि प्राकृते । दुर्बलस्य जामातुरपकीर्ला पतिमरणादधिकं दुःखमुत वंशधरस्य पुत्रस्येति तारतम्यं सहृदयैः परीक्ष्यम् । किमिति रोदिषीति सख्या पृष्टा काचिदाह - अम्हे उज्जुअसीला पिओ वि पिअसहि विआरपरिओसो । हु अण्णा का विगई वाहोहा कहँ पुसिञ्जन्तु ॥ ६४ ॥ [ वयं ऋजुकशीलाः प्रियोऽपि प्रियसखि विकारपरितोषः । न खल्वन्या कापि गतिर्बाष्पौधाः कथं प्रोञ्छ्यन्ताम् ॥ ] वयमति सरलनिसर्गाः प्रियसखि दयितो विकारपरितोषः । न ह्यन्या कापि गतिः प्रोञ्छ्यन्तां कथमिवास्रौघाः ॥ ६४ ॥ वयं किल सरलखभावाः, हावभावादिकं किमपि न जानीमः । दयितस्तु विकारेषु हावभावादिषु परितोषो यस्य तादृशः । ततश्च हावभावनिपुणाभिर्महिलाभिर्हृत हृदयोयं ताखेवाधिकमनुरज्येत् । अत एव प्रियविरहशङ्कया रुद्यत इति भावः । वयमिति बहुत्वेन - अहं मम सख्यादिपरिजनश्चापि सर्वः सरलखभाव इति सूच्यते । हावादीनां विकारपदव्यपदेशेन - कुल महिलानामार्जवमेव स्वभावः, हावभावस्त्वखाभाविकतया विकार एव मे भातीति तत्रारुचिः सूच्यते । वयं यथा स्वस्वभावभूतमार्जवं न त्यजामस्तथा प्रियोपि हावभावप्रियतां न त्यक्तुमिच्छेत्, ततश्चान्योन्यानुरागार्थं न काप्यन्या गतिरिति भावः । अस्रौघा बाष्पसमूहाः कथं प्रोच्छ्यन्ताम् अपनीयन्ताम् । असौघा इति बहुत्वेन भूयान् वाष्प निचय इति दुःखबहुत्वं ध्वन्यते । कथमित्यनेन - निजप्रकृतिमत्यजन् प्रियः सरलायां मयि संप्रति नानुरज्यति, अग्रेपि तथा भविष्यन् न दृश्यत इति चिन्तया सन्ततमश्रुविसरः प्रवहति, कियत्प्रोच्छ्यतामिति तदतिशयो व्यज्यते ॥ सुदृढमनुरकायामपि मयि न त्वमनुरज्यसीति सवैदग्ध्यमुपालभमाना काचिन्ना यकमाह धवल सि जइ वि सुन्दर तह वि तुए मज्झ रञ्जिअं हिअअम् । अभरिए वि हिअe सुहअ णिहित्तो ण रत्तो सि ।। ६५ ।। [ धवलोsसि यद्यपि सुन्दर तथापि त्वया मम रञ्जितं हृदयम् । रागभृतेऽपि हृदये सुभग निहितो न रक्तोऽसि ॥ ] सं. गा. २९ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446