Book Title: Gathasaptashati
Author(s): Nathuram Shastri
Publisher: Pandurang Javji

View full book text
Previous | Next

Page 419
________________ ३३४ काव्यमाला | [ दूरान्तरितेऽपि प्रिये कथमपि निवर्तिते मम नयने । हृदयं पुनस्तेन सममद्याप्यनिवारितं भ्रमति ॥ ] दूरान्तरिते दयिते कथमपि नयने निवर्तिते तु मया । हृदयं तेन समं पुनरद्याप्यनिवारितं भ्रमति ॥ ५८ ॥ दयिते दूरान्तरं गते सति, दूरं गत्वा वृक्षादिभिरन्तरिते तिरोहिते सति वा । मया नयने कथमपि निवर्तिते अतिकष्टेन परावर्तिते । निवर्तिते इति णिचा - 'ते खेच्छया न निवृत्ते, अपि तु मया बलात्परावर्तिते' इति प्रणयातिशयो द्योत्यते । अनिवारितं मम नियन्त्रणामवधीर्य बलात्प्रवृत्तम् । भ्रमतीत्यनेन --यत्र यत्र स गच्छति तत्र तत्रैव यातीति प्रियवश्यत्वं सूच्यते । अथवा — अनिवारितमित्यनेन 'लोकलज्जाभयेन नयने मया निवारिते, परं हृदयं न निवारितम्, यतो हृदयमस्मै समर्पितम् ।' एवं च 'अवशीभूतहृदया कथं धैर्यमुपयामि' इति खपारतन्त्र्यं सखीं प्रत्यभिव्यज्यते । ' दूरान्तरितेऽपि' इति मूलगतस्य 'अपि' शब्दस्य विशेषतो न स्वारस्यमिति तदुपेक्षा । तस्यैवाग्रहे तु 'दयिते दूरान्तरितेपि मया कथमपि निवर्तिते नयने' इति पाठ्यम् | 'विरहोत्कण्ठिता दूतीमाह' इति गङ्गाधरावतरणम् ॥ दयितविलोकनादेव शिथिलितमानां नायिकामालोक्य मानं शिक्षयन्ती सखी सप्रणयोपालम्भमाह तस्स कहाकण्टइए सद्दाअण्णणसमोसरिअकोवे । समुहालोअणकम्पिरि उवऊढा किं पवजिहिसि ।। ५९ ।। [ तस्य कथाकण्टकिते शब्दाकर्णन समपसृतकोपे । संमुखालोकनकम्पनशीले उपगूढा किं प्रपत्स्यसे ॥ ] तस्य कथाकण्टकिते शब्दश्रवणेन समपसृतकोपे । संमुखवीक्षणवेपिनि किभूपगूढा प्रपत्स्यसे नूनम् ॥ ५९ ॥ प्रियस्य कथामात्रेण प्रसङ्गोत्थापनमात्रेण रोमाञ्चिते ! प्रियस्य शब्दश्रवणेन अपगतकोपे ! प्रियस्य संमुखालोकनेन कम्पनशीले ! प्रियेण उपगूढा त्वं किमु प्रपत्स्यसे ? प्रियप्रसङ्गेनैव यदा ते रोमाञ्चवेपथुमुखाः सात्त्विकभावा भवन्ति, येन हि कोपापगमः स्पष्टं प्रतीयते तर्हि प्रियेण परिरब्धा तु न जाने त्वं किं करिष्यसीति भावः । अङ्गवि. शेषमनिर्दिश्य सर्वशरीरे रोमाञ्श्चोत्त्या प्रियप्रणयातिशयः सूच्यते, अत एव शब्दमात्रात् 'सम्' सम्यग्रूपेण अपसृतकोपा त्वं भवसीति जाने । यदा तु ते कृत्रिमकोपः स्वयमेवापसरति तदा प्रियमभिमुखमागतमालोक्य ते कम्पोद्गमो भवतीत्यप्यहं वेद्मि । एवं च - एवं प्रियप्रणयानुगता त्वं मानावलम्बनमृषोत्त्या किमित्यस्मान्मुधा व्यामोहसीत्युपालम्भो नायिकां प्रति ध्वन्यते । 'मानं कर्तुमसमर्थां नायिकां प्रति दूती सप्रणयकोपमाह' इति गङ्गाधरः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446