Book Title: Gathasaptashati
Author(s): Nathuram Shastri
Publisher: Pandurang Javji

View full book text
Previous | Next

Page 418
________________ ७ शतकम् ] संकृतगाथासप्तशती। ३३३ सपाटवोपालम्भपण्डिता काचित्खण्डिता प्रातरुपगतं दयितं चन्द्रव्यपदेशेनाह अणुहुत्तो करफंसो सअलअलापुण्ण पुण्णदिअहम्मि । वीआसङ्गकिसङ्गअ एहिं तुह वन्दिमो चलणे ॥५७ ॥ [अनुभूतः करस्पर्शः सकलकलापूर्ण पूर्णदिवसे। द्वितीयासङ्गकृशाङ्ग इदानीं तव वन्दामहे चरणौ ॥] अनुभूतः पूर्णदिने सकलकलापूर्ण तव करस्पर्शः। वन्दामहे द्वितीयासङ्गकृशाङ्गाधुना चरणौ ॥ ५७॥ षोडशकलाभिः पूर्ण (अयि चन्द्र), पूर्णदिने तव कलाभिः पूर्णे पूर्णिमादिवसे तव किरणस्पर्शोऽनुभूतः। द्वितीयासङ्गेन द्वितीयातिथेः संबन्धेन कृशशरीर! इदानीं वन्दनीयचरणोसि । व्यङ्ग्यविधया तु दयितमाह-चतुःषष्टिकलाभिः पूर्ण पूर्णदिने तव सङ्गसौख्यपूर्णे दिने । अथवा प्राकृते 'पुण्णदिअहम्मि' इत्यस्य पुण्यदिवस इत्यर्थः। ततश्वमत्पुण्योदयदिने अथवा शोभने दिने तव हस्तस्पर्शोऽनुभूतः । इदानी द्वितीयस्याः मत्तोऽ. परस्याः सपन्याः सङ्गेन कृशाङ्ग ! तव चरणौ वन्दामहे, इदानीं त्वं चरणयोः प्रणम्य एव न तु सविधमुपगम्य इत्यर्थः। दूरत एव नमस्करणीयोसीति भावः। कोपतः प्रत्याख्याने प्रसिद्धा किल चरणवन्दनोक्तिः। सकलकलापूर्णति सासूयोक्त्या-त्वं सकलशाव्यकलाभिः पूर्णोसि । एवं च भाग्यैरभिनन्दनीये पुण्येपि दिवसे तव करस्पर्श एवं अस्मत्कृते भूरिभाग्यमभूत् । द्वितीयाभिः साकं तु सङ्गोपि भवति, यस्याधिक्येन कार्यमप्यभवत् । अहो धन्योसि ?' इतीया व्यज्यते । किञ्च-स किल कश्चन पुण्यो दिवस आसीद्यत्र ते करस्पर्शः (विवाहावसरे प्रथमप्रथमं पाणिग्रहः) मयानुभूतः । इदानीमन्यासङ्गकृशाङ्गात्त्वत्तो दूरपरिस्थितिरेव साधीयसी । एवं च-'पाणिगृहीतीमपि मां परिक्लेश्य अन्यासु शरीरशोषयित्रीषु निर्भरं रमसे' इत्याक्षेपो ध्वन्यते। अथवाअस्माभिरस्मत्पुण्योदयदिने तव करग्रहणमात्रमनुभूतम् । इदानीं वास्तवे या ते सहधर्मिणी (भार्या), तस्यः सङ्गेन त्वं कृशाङ्गो दृश्यस एवेति कोपवैपरीसं व्यज्यते । 'द्वितीया सहधर्मिणी' इत्यमरः । अप्रस्तुतेन चन्द्रवृत्तान्तेन प्रियतमचेष्टासूचनादप्रस्तुतप्रशंसा । अनया च-'भाग्योदयसूचके शोभने दिने तव करस्पर्शो यो मयाऽनुभूतः, [भूतकालिकन सोऽनुभवकालो व्यतीतः] इदानीं तव चरणयोः प्रणामः। अर्थात्सपत्नीाग्निदाहापेक्षया त्वत्तो दूरपरिस्थितिरेव सुखावहा' इत्युपालम्भो व्यज्यत इत्यलंकारेण वस्तुध्वनिः। 'खण्डिता काप्यन्यापदेशेन कान्तं सचमत्कारमाह' इत्यवतरणम् । 'अत्र समासोक्त्यलङ्कारेण चन्द्रकान्तयोरुपमानोपमेयभावो व्यङ्ग्यः' इत्युपसंहारश्व गङ्गाधरटीकायाम्। प्रियतमगमने हृदयदृढीकरणार्थमुक्ता दृढानुरक्ता नायिका सखीमाह दूरन्तरिए वि पिए कह वि णिअत्ताइँ मज्झ णअणा। हिअअं उण तेण समं अज वि अणिवारिअं भमइ ॥ ५८॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446