Book Title: Gathasaptashati
Author(s): Nathuram Shastri
Publisher: Pandurang Javji

View full book text
Previous | Next

Page 417
________________ ३३२ काव्यमाला | अत्यासन्नविवाहे प्रवर्द्धमाने तु तरुणगोपीभिः । मधुमथने संबन्धा निहूयन्ते यशोदया साकम् ॥ ५५ ॥ प्रवर्द्धमाने वयोवृद्धिं गच्छति मधुमथने अत्यासन्नो विवाहो यस्यैवंभूते सति तरुण गोपीभिः यशोदया सह ये संबन्धास्ते निहूयन्ते । निकटसंबन्धाभावे विवाहसंबन्धो निष्प्रतिबन्धं स्यादिति भावः । तरुणपदेन - विवाहयोग्यता कृष्णेन सह प्रणयसंबन्धश्च सूच्यते । तथा च - विवाहसंबन्धार्थमप्येवंविधाः संबन्धा यदि नानुरुध्यन्ते तर्हि किमत्रैषां प्रतिबन्धकतागन्धोपीति नायिकां प्रत्यभिव्यज्यते । अत्यासन्नेत्यतिपदेन - अतित्वरितं चिकीर्ष्यमाणे विवाहे, एकत्र विवाहप्रतिबन्धकसंबन्धेऽधिगतेऽन्यत्र स संबन्धः स्थिरीकृतो भवेदिति सूच्यते । 'कामार्ताः खाजन्यमप्यपलपन्तीति निदर्शयन्कश्चिदाह' इत्यस्पष्टार्थमिव गङ्गाधरावतरणम् । दयितविषये भग्नमनोरथतया निर्वेदमुपगता काचित्सखेदं विधिमुपालभतेजं जं आलिहइ मणो आसावट्टीहिँ हिअअफलअम्मि | तं तं बालो व विही णिहुअं हसिऊण पम्हुसइ ॥ ५६ ॥ [ यद्यदालिखति मन आशावर्तिकाभिर्हृदयफलके । तत्तद्वाल इव विधिर्निभृतं हसित्वा प्रोञ्छति ॥ ] हृदयपटे किल यद्यन्मन आशावर्तिकाभिरालिखति । तत्प्रोञ्छति निभृतं बालक इव विधिरसौ विहसन् ॥ ५६ ॥ मनः ( कर्तृपदम् ) । आशावर्तिकाभिः आशारूपाभिस्तूलकाभिर्यद्यत् आलिखति । मनसि नानाविधा आशाः कुर्वत्यहं यद्यत् निश्चिनोमि विधिस्तत्सर्वमतर्कितमेव लुम्पतीति भावः । आशावर्तिकाभिरिति बहुवचनेन - चित्रकरो नानाविधरङ्गार्थं नानाविधास्तूलिका यथा व्यवहरति तथाहमपि विविधा आशा हृदि धारयामीति ध्वन्यते । विहसन्प्रोज्छतीति खेलामुपयातस्य बालकस्य स्वभावचित्रणम् । एवं च - बालको यथापरस्य लाभालाभावविचारयन्नेव पटलिखितं प्रोञ्छति, सा चास्य नैसर्गिकक्रीडेति परिवर्ण्यते, तथैव विधिरपि मे सर्वमनुचिन्तितं मनोरथजातं क्रीडयेवापमाष्टति द्योत्यते । विहसन्नित्यनेन - मम सर्वनाशं परिजानन्नपि विधिर्निर्दुःखमेव प्रवर्तत इति निष्ठुरता ध्वन्यते । निभृतमित्यनेन - ममापरिज्ञातमेव सर्वं कार्यं विफलं भवतीति सहसा नैराश्यं सूच्यते । प्रोञ्छतिपदेनआलेख्यस्य हस्तेनापमार्जनेपि विरूपा अपि तद्गता रङ्गरेखा यथा प्रतीयन्त एव तथा मनोरथवैफल्येपि तेषां स्मृतिर्मां भृशमुद्व्यथयतीति दुःखस्मृतिरभिव्यज्यते । बालक इवेत्युपमया खेलाविलग्नबालकद्दठो यथा दुर्निवारस्तथेदं विधिविलसितमिति विवशता ध्वन्यते। असाविति - समक्षमेव मे, मन्मनोरथानपहन्तीति दुःखकारणता द्योत्यते । मनो यद् ( आ ) ईषदेव लिखतीत्यनेन - आशापरम्पराया हृदये स्थानदानमात्र एव त्वरितमेव मे नैराश्यं भवतीति व्यज्यते । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446