Book Title: Gathasaptashati
Author(s): Nathuram Shastri
Publisher: Pandurang Javji
View full book text
________________
काव्यमाला |
निःशेषितधनत्वात्पूर्वं दत्तार्द्धचन्द्रस्ततः पुनरुपार्जितधनत्वे दुहितृस्नेहमुपदर्श्य कुट्टन्यानुनीयमानो भुजङ्गः पूर्वदुर्वचनानि साकूतमभिध्वनयन्सोपालम्भप्रत्याख्यानमात्मनिन्दाव्यपदेशेनाह
३३०
___________
ठाणभट्ठा परिगलिअपीणआ उण्णईअ परिचत्ता । अम्हे उण ठेरपओहर व उअरे चिअ णिमण्णा ॥ ५२ ॥ [ स्थानभ्रष्टाः परिगलितपीनत्वा उन्नत्या परित्यक्ताः । वयं पुनः स्थविरापयोधरा इवोदर एव निषण्णाः ॥ ] उन्नत्या संत्यक्ताः स्थानभ्रष्टाश्व गलितपीवरताः । स्थविरापयोधराविव वयं निषण्णा उदर एव ॥ ५२ ॥
उन्नत्या तुङ्गत्वेन पक्षे उत्कर्षेण । स्थानभ्रष्टा भुजमूलरूपात् स्थानतः पतिताः, पक्षे स्वस्वरूपोचितपदतच्युताः । उदर एव निषण्णाः उदरोपरि लम्बमानाः, पक्षे उदरभर - गायैव जीवन्तः । संत्यक्ताः स्थानभ्रष्टा इत्यादिविशेषणानां पयोधरावित्यनेन सह वचन - विपरिणामेनान्वयः । उपमायां वचनसाम्याग्रहे तु व्यक्ति बहुत्वात्पयोधरबहुत्वमवलम्ब्य ' स्थविरापयोधराः' इत्येव पठनीयम् । तथा च - ' - 'उन्नतपुरुषा एवास्मादृशीनां व्यवहारोचिताः' इत्यादि भवत्या पूर्वमुक्तत्वात् निर्धनतयैव अवनताः पदभ्रष्टाच वयं न युष्माकमनुरूपाः, किमस्माभिरिति सोत्प्रासं प्रत्याख्यानमभिव्यज्यते । अनभिरुचितौ स्थविरापयोधरौ यथा न केनचिदुपगम्यौ तथा क्षीणधना वयमपि निःसार्या एव, किमस्माभिर्युष्माकं प्रयोजनमिति निगूढोपालम्भश्च ध्वन्यते । वयमिति बहुत्वेन 'अहमेव किम्, अस्मत्सदृशा बहवोपि भवादृशीभिरवधीरिता युष्मत्स्वरूपं परिचायिताश्च' इति कुट्टनीं प्रति साकूतं व्यज्यते ।
वाग्वैदग्ध्यमण्डिता काचित्खण्डिता प्रातरायान्तं कान्तं दिनकरनमस्कारव्यपदेशेनोपालभते
पच्चूसागअ रञ्जितदेह पिआलोअ लोअणाणन्द | अण्णत्तखविअसवर हभृसण दिणवह णमो दे ॥ ५३ ॥ [ प्रत्यूषागत रक्तदेह प्रियालोक लोचनानन्द | अन्यत्रक्षपितशर्वरीक नभोभूषण दिनपते नमस्ते ॥ ] प्रत्यूषागत रञ्जितदेह प्रियालोकलोचनानन्द | सन्नखमण्डनक नमो दिवसपते ऽन्यत्रनीतरजनीक ॥ ५३ ॥ प्रत्यूषे प्रातःकाले आगतो द्वीपान्तरात्, पक्षे सपत्नीभवनात् । रञ्जितदेहः उदयसमये अरुणमण्डलः पक्षे सपत्नीसंक्रान्तालककादिना रक्तशरीरः, सपल्यामनुरक्तमूर्तिर्वा । प्रियः आलोकः प्रकाशोऽवलोकनं वा यस्य सः । लोचनयोरानन्दखरूप पक्षे प्रियालोकलोचनानन्देत्येकं पदम् । प्रियालोकस्य अन्यमहिलाजनस्य लोचनयोरानन्दो यस्मात्सः । स
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446