Book Title: Gathasaptashati
Author(s): Nathuram Shastri
Publisher: Pandurang Javji

View full book text
Previous | Next

Page 413
________________ ૧૨૮ काव्यमाला | यस्मिन्यूनि सेयं बद्धभावा, गुणमुग्धतया पुनः पुनस्तस्यैव कथाः कुर्वतीरन्य युवती - रालोक्य मनसी कषायिता कान्चिन्मातृभगिनीमाह - तत्तो चिअ होन्ति कहा विअसन्ति तहिं तहिं समप्यन्ति । किं मण्णे माउच्छा एकजुआणो इमो गामो ॥ ४८ ॥ [ तत एव भवन्ति कथा विकसन्ति तत्र तत्र समाप्यन्ते । किं मन्ये मातृष्वसः एकयुवकोऽयं ग्रामः ॥ ] तत एव भवन्ति कथा विकसन्ति च तत्र तत्र पूर्यन्ते । अपि मन्ये मातृष्वसरेकयुवायं किमु ग्रामः ॥ ४८ ॥ ततस्तस्मादेव युवकात्कथा भवन्ति । तमवलम्ब्यैव कथानामारम्भ इत्यर्थः । तत्र विकसन्ति वृद्धिं प्राप्नुवन्ति । तत्रैव च समाप्यन्ते । ततश्च हे मातृष्वसः ! एको युवा यस्मिन्नीदृशोयं ग्राम इति किमहं मन्ये ? किमन्यः कश्चन युवा नास्ति यदेकस्य तस्यैव कथामुखरो लोक इति भावः । तस्यैव कथा भवन्तीतिस्थाने 'तस्मादेव कथा भवन्ति' इत्यनेन ‘परस्परं कथोपकथनस्यारम्भस्तं विषयीकृत्यैव भवति, इतः पूर्वं तु न तासु संलाप इति ' तद्गुणमुग्धतातिशयो व्यज्यते । विकसन्तीति पुष्पधर्मताकथनेन ' तद्विषयीकरणं विना कथा मुकुलिता एव तिष्ठन्ति तं वर्ण्यं कृत्वा तु तासां गुणसौरभप्रसारः' इत्यतिशयो ध्वन्यते । 'पुनः पुनः कस्यचित्कथाः कुर्वती कामप्युपहसन्ती कापि मातृभगिनीमाह ' इति गङ्गाधरः । गुणानुरक्ता काचित्प्रियवचनानां मनोवशीकारितामन्तरङ्गसखीं प्रत्याह जाणि वअणाणि अम्हे वि जम्पिओ ताइँ जम्पइ जणो वि । ताई चिअ तेण पजम्पिआई हिअअं सुहावेन्ति ॥ ४९ ॥ [ यानि वचनानि वयमपि जल्पामस्तानि जल्पति जनोऽपि । तान्येव तेन प्रजल्पितानि हृदयं सुखयन्ति ॥ ] वचनानि यानि वयमपि जल्पामस्तानि जल्पति जनोपि तेन प्रजल्पितानि तु हृदयं सुखयन्ति तान्येव ॥ ४९ ॥ जनोपीत्यनेन - केवलमस्माकमेव वचनानि सामान्यानि न, अस्मद्बहुमानभाजनमन्योपि जनस्वादृशान्येव संलपतीति सर्वजनवचनापेक्षया प्रियवचनानामुत्कर्षः सूच्यते । तान्येव वचनानि तेन प्रजल्पितानि तु हृदयहारीणीत्यनेन - शब्दसंनिवेशः स एव भवति परं तत्संबन्धित्वेन प्रियतया तेषां हृदयाकर्षकत्वं भवतीति प्रियं प्रति हार्दिकोनुरागो व्यज्यते । कृतकलहतया पत्युः पराङ्मुखीं नायिकां जारसमागमायोत्साहयन्ती दूती प्रसङ्गानु गतमाह सवाअरेण मग्गह पिअं जणं जइ सुहेण वो कञ्जम् । जं जस्स हिअअदइअं तं ण सुहं जं तहिं णत्थि ॥ ५० ॥ Jain Education International + For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446