Book Title: Gathasaptashati
Author(s): Nathuram Shastri
Publisher: Pandurang Javji

View full book text
Previous | Next

Page 412
________________ ७ शतकम् ] संस्कृतगाथासप्तशती। ३२७ अलिअपसुत्तवलन्तम्मि णववरे णववहूअ वेवन्तो। संवेल्लिओरुसंजमिअवत्थगण्ठिं गओ हत्थो ॥४६॥ [अलीकप्रसुसवलमाने नववरे नववध्वा वेपमानः । संवेष्टितोरुसंयमितवस्त्रग्रन्थि गतो हस्तः ॥] कृतकप्रसुप्तविवलति नववध्वा नववरेपि कम्पयुतः। संवेष्टितोरुनियमितवस्त्रग्रन्थि गतो हस्तः ॥ ४६॥ नववरे कृतकप्रसुप्ते अलीकमेव प्रसुप्ते, अत एव विवलति साम्प्रतमपि स्पर्शादावनुकूला जाता न वेत्युत्कण्ठया वधू प्रति किञ्चित्परावर्तमानेपि सति, भयेन कम्पमानो नववध्वा हस्तः संवेष्टिताभ्यामूरुभ्यां नियमितस्य सुदृढसंवृतस्य वस्त्रस्य ग्रन्थि नीविं प्रति गतः। वरस्य किञ्चिन्मात्रपरावर्तनेपि नीविमसौ नावलंसयेदिति-तस्या भयं भवतीति भावः । कृतकखापेन-'विश्रब्धदशायां किमियमाचेष्टते' इति परिज्ञानाभिलाषः, 'अनुनय विनयौ कृत्वा दैन्येन प्रसुप्तखिन्ने मयि साम्प्रतं कदाचिदनुमता स्यात्' इत्युत्कण्ठा वा सूच्यते। नववरेपि तस्या एतावद्भयं भवति किं पुनः प्रौढे प्रेयसीति नववरे इति पदेन ध्वन्यते । एवं च खभाव एवायं बालानां न पुनरयं कोपः, तस्माद्विसम्भणपूर्वकं धैर्येण प्रवर्तितव्यं न पुनः कोपेनेति नायकं प्रत्यभिव्यज्यते । विस्रम्भणपूर्वकमेव नववध्वां प्रवर्तितव्यमिति नायकं शिक्षयन्ती काचित्प्रौढा बलवि. चेष्टया कोपितायाः कस्याश्चिदवस्थामाह पुच्छिज्जन्ती ण भणइ गहिआ पप्फुरइ चुम्बिआ रुअइ । तुह्निका णववहुआ कआवराहेण उवऊढा ॥४७॥ [पृच्छयमाना न भणति गृहीता प्रस्फुरति चुम्बिता रोदिति । तूष्णीका नववधूः कृतापराधेनोपगूढा ॥] न हि भणति पृच्छयमाना स्फुरति गृहीता च चुम्बिता रोदिति। तूष्णीकामिनववधूरुपगूढा किल कृतापराधेन ॥४७॥ हस्तादिषु गृहीता प्रस्फुरति, हस्तादिकं सरभसमवहेल्य दूरे विचलति । कृतापराधतायां विस्रम्भणमकृत्वा बलात्प्रवृत्तौ हि संलापादिषु वामैव सा भवतीति भावः । किंवा भयसंकोचादिवशादनिच्छन्त्यां तस्यां हस्तग्रहणादिकमेवापराधः । अत एव कृततादृशापराधेन तेन पृच्छयमाना न भणतीत्यादि । अथवा-पृच्छयमाना न भणति गृहीता स्फुरति इत्यादि नवोढायाः खाभाविकचेष्टामवलोक्य कृतापराधेन निपुणनायकेन तूष्णीका नववधूरुपगूढा । तथा च संमतिमप्रतीक्ष्य स्वभावतरला नववधूलादुपभोक्तव्येति नायकं प्रति प्रौढा दूती शिक्षयतीति संदर्भो बोध्यः। 'वित्रंभणानभिज्ञेन कान्तेन कोपितायाः कस्याश्चिदवस्था कापि सखीमाह' इति गङ्गाधरावतरणम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446