________________
७ शतकम् ]
संस्कृतगाथासप्तशती।
३२७
अलिअपसुत्तवलन्तम्मि णववरे णववहूअ वेवन्तो। संवेल्लिओरुसंजमिअवत्थगण्ठिं गओ हत्थो ॥४६॥ [अलीकप्रसुसवलमाने नववरे नववध्वा वेपमानः ।
संवेष्टितोरुसंयमितवस्त्रग्रन्थि गतो हस्तः ॥] कृतकप्रसुप्तविवलति नववध्वा नववरेपि कम्पयुतः।
संवेष्टितोरुनियमितवस्त्रग्रन्थि गतो हस्तः ॥ ४६॥ नववरे कृतकप्रसुप्ते अलीकमेव प्रसुप्ते, अत एव विवलति साम्प्रतमपि स्पर्शादावनुकूला जाता न वेत्युत्कण्ठया वधू प्रति किञ्चित्परावर्तमानेपि सति, भयेन कम्पमानो नववध्वा हस्तः संवेष्टिताभ्यामूरुभ्यां नियमितस्य सुदृढसंवृतस्य वस्त्रस्य ग्रन्थि नीविं प्रति गतः। वरस्य किञ्चिन्मात्रपरावर्तनेपि नीविमसौ नावलंसयेदिति-तस्या भयं भवतीति भावः । कृतकखापेन-'विश्रब्धदशायां किमियमाचेष्टते' इति परिज्ञानाभिलाषः, 'अनुनय विनयौ कृत्वा दैन्येन प्रसुप्तखिन्ने मयि साम्प्रतं कदाचिदनुमता स्यात्' इत्युत्कण्ठा वा सूच्यते। नववरेपि तस्या एतावद्भयं भवति किं पुनः प्रौढे प्रेयसीति नववरे इति पदेन ध्वन्यते । एवं च खभाव एवायं बालानां न पुनरयं कोपः, तस्माद्विसम्भणपूर्वकं धैर्येण प्रवर्तितव्यं न पुनः कोपेनेति नायकं प्रत्यभिव्यज्यते ।
विस्रम्भणपूर्वकमेव नववध्वां प्रवर्तितव्यमिति नायकं शिक्षयन्ती काचित्प्रौढा बलवि. चेष्टया कोपितायाः कस्याश्चिदवस्थामाह
पुच्छिज्जन्ती ण भणइ गहिआ पप्फुरइ चुम्बिआ रुअइ । तुह्निका णववहुआ कआवराहेण उवऊढा ॥४७॥ [पृच्छयमाना न भणति गृहीता प्रस्फुरति चुम्बिता रोदिति ।
तूष्णीका नववधूः कृतापराधेनोपगूढा ॥] न हि भणति पृच्छयमाना स्फुरति गृहीता च चुम्बिता रोदिति।
तूष्णीकामिनववधूरुपगूढा किल कृतापराधेन ॥४७॥ हस्तादिषु गृहीता प्रस्फुरति, हस्तादिकं सरभसमवहेल्य दूरे विचलति । कृतापराधतायां विस्रम्भणमकृत्वा बलात्प्रवृत्तौ हि संलापादिषु वामैव सा भवतीति भावः । किंवा भयसंकोचादिवशादनिच्छन्त्यां तस्यां हस्तग्रहणादिकमेवापराधः । अत एव कृततादृशापराधेन तेन पृच्छयमाना न भणतीत्यादि । अथवा-पृच्छयमाना न भणति गृहीता स्फुरति इत्यादि नवोढायाः खाभाविकचेष्टामवलोक्य कृतापराधेन निपुणनायकेन तूष्णीका नववधूरुपगूढा । तथा च संमतिमप्रतीक्ष्य स्वभावतरला नववधूलादुपभोक्तव्येति नायकं प्रति प्रौढा दूती शिक्षयतीति संदर्भो बोध्यः। 'वित्रंभणानभिज्ञेन कान्तेन कोपितायाः कस्याश्चिदवस्था कापि सखीमाह' इति गङ्गाधरावतरणम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org