SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ ३२६ काव्यमाला | उअगअचउत्थि मङ्गलहोन्त विओअसविसेसलग्गेहिं । तीअ वरस्स अ सेअंसुएहिँ रुण्णं व हत्थेहिं ॥ ४४ ॥ [ उपगतचतुर्थी मङ्गलभविष्यद्वियोग सविशेषलग्नाभ्याम् । तस्या वरस्य च स्वेदाश्रुभी रुदितमिव हस्ताभ्याम् ॥ ] सपदि चतुर्थीमङ्गलभाविविरहभय विशेषलग्नाभ्याम् । स्वेदाश्रुभी रुदितमिव वरस्य तस्याश्च हस्ताभ्याम् ॥ ४४ ॥ सपदि शीघ्रमागामिनि चतुर्थीमङ्गले भाविनो विरहस्य भयात् विशेषतो लग्नाभ्यां संघटिताभ्यां वरस्य तस्याश्च [ नायिकायाः ] हस्ताभ्यां स्वेदरूपाण्यश्रूणि विमुच्य रुदितमिवेत्यर्थः । भये उपस्थिते जनो रक्षणप्रत्याशयेव स्निग्धं जनं गाढमालिङ्गति । एवं च वियोगभयान्निबिडमाश्लिष्टयोः करयोः परस्परं स्नेहातिशयो ध्वन्यते । विवाहोयं पाणिपीडनमित्याख्यायते, ततश्रावयोरेव मिथोग्रहणेन संजातव्यपदेशं वैवाहिकमिदं समागमसुखं हन्ताचिरादेव विरहदुःखे परिणंस्यत इति लज्जाखेदयोः कारणात् [ अन्याङ्गेषु तिष्ठत्स्वपि ] हसत इति हस्तौ इति परिभाषिताभ्यामपि इस्ताम्यां रुदितमित्याशयः । मिथः करयोजने स्वेदरूप सात्त्विकोदयात्परस्परं गाढानुरागः प्रतीयते । विवाहोत्तरं चतुर्थी होमम् (नागवल्लीम् ) कृत्वा जामाता स्वगृहं गच्छति । पुनर्यावद्विरागमनं द्वयोर्विरहो भवतीति लोकव्यवहारः । नववधूसंगमस्या लौकिक सुखकरत्वं प्रतिपादयन्कश्चित्सहचरमाह अ दिहिं इ मुहं ण अ छिविउं देइ णालवइ किं पि । तह वि हु किं पि रहस्सं णवबहुसङ्गो पिओ होइ ॥ ४५ ॥ [ न च दृष्टिं नयति मुखं न च स्प्रष्टुं ददाति नालपति किमपि । तथापि खलु किमपि रहस्यं नववधूसङ्गः प्रियो भवति ॥ ] न च दृष्टिं नयति मुखं स्प्रष्टुं न ददाति नालपति किमपि । तदपि च किमपि रहस्यं प्रियो भवति नववधूसङ्गः ॥ ४५ ॥ न पश्यतीति स्थाने ‘मुखं प्रति दृष्टिं न नयति' इत्युक्त्या - 'भूमौ इतस्ततो वा प्रेर्यमाणतायां स्ववशाया अपि दृष्टेरुपरि अधिकारसत्त्वेपि भयसंकोचादिकारणात्तां न नयतीति' कश्चन विचित्रः साध्वसातिशयो द्योत्यते । तथापि च नववधूसङ्गः प्रियो भवतीति किमपि ( अनिर्वचनीयम् ) रहस्यमिति भावः । प्रियत्वहेतोर्दर्शनस्पर्शनादेरभावेपि प्रियत्वरूपं कार्यमिति विभावना । 'विभावना विनापि स्यात्कारणं कार्यजन्म चेत् ' इति लक्षणात् । किमपि रहस्यमित्यस्याविमर्शे तु नववधूसङ्गः प्रियो भवतीत्यत्र 'सा नववधूरिति तत्सङ्गः प्रियो भवति' तथा च प्रियतायां नवत्वं कारणमिति काव्यलिङ्गोपि बुद्धिस्थो भवति । नवोढबालाया वाम्येन कुपितं नायकं प्रसादयितुं काचित्प्रौढा नववध्वाः स्वभावमाह Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001858
Book TitleGathasaptashati
Original Sutra AuthorN/A
AuthorNathuram Shastri
PublisherPandurang Javji
Publication Year1993
Total Pages446
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Literature, & Kavya
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy