________________
७ शतकम् ]
संस्कृतगाथासप्तशती ।
३२५
त्यनेन - उपरित एव दर्शनीय सौन्दर्या सा नान्तर्गुणवतीति मोघायामाशायां किं तामङ्कगतामुपेक्षस इति ध्वन्यते ।
परिणयप्रसङ्गात्पूर्वमेव प्रोद्भूतप्रणयाया अस्याः सांप्रतमस्मिन् यूनि प्रगाढप्रीतेश्चिह्नानि प्रत्यक्षं प्रादुर्भवन्तीति परिज्ञानपाटवं प्रथयन्कश्चित्सहचरमाह
गिजन्ते मङ्गलगाइआहिँ वरगोत्तदिष्णअण्णाए । सोउं व णिग्गओ उअह होन्तवहुआइ रोमचो ॥ ४२ ॥ [ गीयमाने मङ्गलगायिकाभिर्वरगोत्रदत्तकर्णायाः । श्रोतुमिव निर्गतः पश्यत भविष्यद्वधूकाया रोमाञ्चः ॥ ] माङ्गल्यगायिकाभिगते वरगोत्रदत्तकर्णायाः ।
श्रोतुमिव निर्गतः किल रोमाञ्चः पश्य भाविनववध्वाः ॥ ४२ ॥ मङ्गलमेव माङ्गल्यम् । विवाहमङ्गलगायिकाभिर्गीते सति वरस्य गोत्रे नामनि दत्तकर्णाया भाविन्याः नववध्वाः रोमाञ्चः श्रोतुमिव निर्गतः किलेति पश्य । दत्तकर्णेति पदेन - नामश्रवणे दत्तावधानतया पतिप्रीतिपरिचयः प्रख्यायते । रोमाञ्चः श्रोतुमिव निर्गत इत्युत्प्रेक्षया - तस्या रोमरोमापि गुणश्रवणलालसमिति प्रगाढा प्रीतिर्ध्वन्यते । भविष्यद्वध्वा इत्युक्त्या ( उह्यते इति वधूः ) इति परिभाषितं वधूत्वं संप्रति न जातं ततोपीदृशी प्रीतिस्तर्ह्यग्रतस्तु किं वाच्यमित्यतिशयो द्योत्यते । 'काप्यासन्न विवाहायाः सखीजनं सपरिहासमाह' इति गङ्गाधरावतरणम् ।
'मङ्गलगीतेषु किमिति सेयं संकुचितेव तिष्ठतीति' विदितव्यभिचारायाः कस्याश्चन विवाहावसरे सनिभृतपरिहासमालपितः कश्चित्सहृदयः 'पूर्वतनसंकेतवेतसनिकुञ्जलोकनेन मनस्येवमुत्प्रेक्षमाणा संकुचतीति' तदुत्प्रेक्षां निजसुहृदं प्रत्यनुवदति -
मण्णे आअण्णन्ता आसण्णविआहमङ्गलुग्गाइम् ।
तेहिँ जुआणेहिं समं हसन्ति मं वेअसकुडङ्गा ॥ ४३ ॥ [ मन्ये आकर्णयन्त आसन्नविवाहमङ्गलोद्गीतम् । तैर्युभिः समं हसन्ति मां वेतसनिकुञ्जः ॥ ]
मन्ये शृण्वन्तो मुडुरासन्नविवाहमङ्गलोद्गीतम् । तैर्नवयुवभिः साकं हसन्ति मां वेतसनिकुञ्जः ॥ ४३ ॥
यैः समं सुरतसुखमनुभूतं तैः साकमित्यर्थः । स्वयं समनुभूतसंगमसौख्यास्ते युवानस्तु संप्रति संजायमानं विवाहमालोक्य मनसि हसन्त्येव परं तैः साकं साक्षिरूपेण ते संकेत वेतसा अपि पाण्डुरपुष्पविकास व्याजेन मां हसन्तीति भावः । 'आसन्नविवाहा व्यभिचारशीला काचित्पुष्पितं संकेत वेतस निकुञ्ज मालोक्योत्प्रेक्षते' इति गङ्गाधरः । अचिरवृत्तविवाहयोरेव वधूवरयोः पश्य कीदृशी प्रीतिरिति परिहास संकथासु नायिकासखी सखीः प्रत्याह
सं. गा. २८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org