________________
૧૨૮
काव्यमाला |
यस्मिन्यूनि सेयं बद्धभावा, गुणमुग्धतया पुनः पुनस्तस्यैव कथाः कुर्वतीरन्य युवती - रालोक्य मनसी कषायिता कान्चिन्मातृभगिनीमाह -
तत्तो चिअ होन्ति कहा विअसन्ति तहिं तहिं समप्यन्ति । किं मण्णे माउच्छा एकजुआणो इमो गामो ॥ ४८ ॥
[ तत एव भवन्ति कथा विकसन्ति तत्र तत्र समाप्यन्ते । किं मन्ये मातृष्वसः एकयुवकोऽयं ग्रामः ॥ ]
तत एव भवन्ति कथा विकसन्ति च तत्र तत्र पूर्यन्ते । अपि मन्ये मातृष्वसरेकयुवायं किमु ग्रामः ॥ ४८ ॥ ततस्तस्मादेव युवकात्कथा भवन्ति । तमवलम्ब्यैव कथानामारम्भ इत्यर्थः । तत्र विकसन्ति वृद्धिं प्राप्नुवन्ति । तत्रैव च समाप्यन्ते । ततश्च हे मातृष्वसः ! एको युवा यस्मिन्नीदृशोयं ग्राम इति किमहं मन्ये ? किमन्यः कश्चन युवा नास्ति यदेकस्य तस्यैव कथामुखरो लोक इति भावः । तस्यैव कथा भवन्तीतिस्थाने 'तस्मादेव कथा भवन्ति' इत्यनेन ‘परस्परं कथोपकथनस्यारम्भस्तं विषयीकृत्यैव भवति, इतः पूर्वं तु न तासु संलाप इति ' तद्गुणमुग्धतातिशयो व्यज्यते । विकसन्तीति पुष्पधर्मताकथनेन ' तद्विषयीकरणं विना कथा मुकुलिता एव तिष्ठन्ति तं वर्ण्यं कृत्वा तु तासां गुणसौरभप्रसारः' इत्यतिशयो ध्वन्यते । 'पुनः पुनः कस्यचित्कथाः कुर्वती कामप्युपहसन्ती कापि मातृभगिनीमाह ' इति गङ्गाधरः ।
गुणानुरक्ता काचित्प्रियवचनानां मनोवशीकारितामन्तरङ्गसखीं प्रत्याह
जाणि वअणाणि अम्हे वि जम्पिओ ताइँ जम्पइ जणो वि । ताई चिअ तेण पजम्पिआई हिअअं सुहावेन्ति ॥ ४९ ॥
[ यानि वचनानि वयमपि जल्पामस्तानि जल्पति जनोऽपि । तान्येव तेन प्रजल्पितानि हृदयं सुखयन्ति ॥ ] वचनानि यानि वयमपि जल्पामस्तानि जल्पति जनोपि तेन प्रजल्पितानि तु हृदयं सुखयन्ति तान्येव ॥ ४९ ॥ जनोपीत्यनेन - केवलमस्माकमेव वचनानि सामान्यानि न, अस्मद्बहुमानभाजनमन्योपि जनस्वादृशान्येव संलपतीति सर्वजनवचनापेक्षया प्रियवचनानामुत्कर्षः सूच्यते । तान्येव वचनानि तेन प्रजल्पितानि तु हृदयहारीणीत्यनेन - शब्दसंनिवेशः स एव भवति परं तत्संबन्धित्वेन प्रियतया तेषां हृदयाकर्षकत्वं भवतीति प्रियं प्रति हार्दिकोनुरागो व्यज्यते । कृतकलहतया पत्युः पराङ्मुखीं नायिकां जारसमागमायोत्साहयन्ती दूती प्रसङ्गानु
गतमाह
सवाअरेण मग्गह पिअं जणं जइ सुहेण वो कञ्जम् । जं जस्स हिअअदइअं तं ण सुहं जं तहिं णत्थि ॥ ५० ॥
Jain Education International
+
For Private & Personal Use Only
www.jainelibrary.org