________________
७ शतकम् ] संस्कृतगाथासप्तशती।
३२९ [सादरेण मृगयध्वं प्रियं जनं यदि सुखेन वः कार्यम् ।
यद्यस्य हृदयदयितं तन सुखं यत्तन नास्ति ॥] सर्वादरेण मार्गत जनं प्रियं यदि सुखेन वः कार्यम् ।
यो यस्य हृदयदयितस्तन्न सुखं तत्र यन्नास्ति ॥ ५० ॥ मार्गत अन्विष्यत । तथा च सहसा प्राप्तेरभावे, सयत्नमन्वेषणेनापि प्रियजनः प्रेम्णा संगन्तव्यः। वयं यत्र प्रणयी आगच्छति किं तत्र वक्तव्यमिति समधिकप्रोत्साहनं व्यज्यते । सर्वादरेणेत्यनेन-यदि गुणाभिमानी स उपेक्षेत तयपि नानाविधैरादरानुगमनैः स प्रसादनीयः । यदि च प्रियजनः स्वयमेवादरं कर्तुमुद्यतः सुबहु सौभाग्यं तत्रेति जारकृतादरः सूच्यते । यदि सुखेन कार्यमित्यनेन-'यद्यपि ते पतिरस्त्येव परं हृदयाननुकूलतया न तत्समागमेन सुखमिति' पत्युरुपजापो ध्वन्यते । यत्सुखं तत्र (हृदयदयिते) न भवेदीदृशं सुखमेव नास्ति, अपि तु सर्व सुखं तत्रोपलभ्यत इत्यर्थः । तन्न सुखमित्यनेनयद्धि सुखमिति सर्वजनैरनुभूतं तत्तु सर्वमपि लभ्येत, यच्च यच्च न प्राप्येत तत् तत्सुखपदवाच्यमेव नेत्याकूतम् । 'वः' इति बहुत्वेन 'त्वामेव प्ररोचनाविधया नेदं कथयामि, अपि तु सामान्यतया सर्वानेव सुखलिप्सून् कथयामीत्यपक्षपातो ध्वन्यते। प्राकृते लिङ्गादेरनियमात् यो यस्य हृदयदयित इति पुंस्थाने 'जं जस्स हिअअदइअं' इति क्लीवं प्रायोजीति बोध्यम् । गङ्गाधरभ्रमानुसारं यथास्थितं नपुंसकमेव चेक्रियेत तर्हि-यवस्तु यत्सुखं वा यस्य हृदयदयितमिति गतिरवलम्ब्या भवेत् । पर्र पूर्वार्द्ध प्रियजनस्य स्पष्टं निर्देशेन दयितपदवारस्याभावेन च सेयमगतिरेवेत्यलम् । __अकृतप्रसाधनैव कथमुपस्थितासीति कान्तमुपगतां दुहितरं प्रति क्रुध्यन्तीं वेश्यामातरै वचनचातुर्येण कामुकः खयमाह
दीसन्तो दिद्विसुओ चिन्तिजन्तों मणवल्लहो अत्ता। उल्लावन्तों सुइसुहो पिओ जणो णिचरमणिजो ॥५१॥ [दृश्यमानो दृष्टिसुखश्चिन्त्यमानो मनोवल्लभः श्वश्रु ।
उल्लप्यमानः श्रुतिसुखः प्रियो जनो नित्यरमणीयः ॥] दृष्टिसुख ईक्ष्यमाणो विचिन्त्यमानो मनोरमः श्वश्रु ।
श्रुतिसुख उदीर्यमाणः प्रियो जनो नित्यरमणीयः॥५१॥ दृश्यमानः प्रियजनो दृष्टेः सुखकारकः । उदीर्यमाणः संकथासु कीर्त्यमानः । सर्वाव. स्थाखपि सर्वदैव सुखकारक इत्यर्थः । प्रियजनस्य ईक्षणं चिन्तनं कीर्तनं च सुखमिति कथनसौकर्येपि ईक्ष्यमाणः प्रिय इत्यादिना ईक्षणचिन्तनादिकं तत्संबन्धितयैव सुखकारकमतः स खयमेव सुखस्वरूपोस्तीत्यतिशयो व्यज्यते । एवं च-हृदयतोनुरज्यतो मम कृते किं वा प्रसाधनेनेति सवैदग्ध्यं स्वप्रणयः प्रकाश्यते । 'तथैवापरगाथामाह' इति निकभ्रता गङ्गाधरेण नायिकोत्साहनार्था दूत्युक्तिरपि सेयं खीकृता, परमत्र ‘श्वश्रु' इत्याम• त्रणं न संबध्यते।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org