________________
३३२
काव्यमाला |
अत्यासन्नविवाहे प्रवर्द्धमाने तु तरुणगोपीभिः । मधुमथने संबन्धा निहूयन्ते यशोदया साकम् ॥ ५५ ॥
प्रवर्द्धमाने वयोवृद्धिं गच्छति मधुमथने अत्यासन्नो विवाहो यस्यैवंभूते सति तरुण गोपीभिः यशोदया सह ये संबन्धास्ते निहूयन्ते । निकटसंबन्धाभावे विवाहसंबन्धो निष्प्रतिबन्धं स्यादिति भावः । तरुणपदेन - विवाहयोग्यता कृष्णेन सह प्रणयसंबन्धश्च सूच्यते । तथा च - विवाहसंबन्धार्थमप्येवंविधाः संबन्धा यदि नानुरुध्यन्ते तर्हि किमत्रैषां प्रतिबन्धकतागन्धोपीति नायिकां प्रत्यभिव्यज्यते । अत्यासन्नेत्यतिपदेन - अतित्वरितं चिकीर्ष्यमाणे विवाहे, एकत्र विवाहप्रतिबन्धकसंबन्धेऽधिगतेऽन्यत्र स संबन्धः स्थिरीकृतो भवेदिति सूच्यते । 'कामार्ताः खाजन्यमप्यपलपन्तीति निदर्शयन्कश्चिदाह' इत्यस्पष्टार्थमिव गङ्गाधरावतरणम् ।
दयितविषये भग्नमनोरथतया निर्वेदमुपगता काचित्सखेदं विधिमुपालभतेजं जं आलिहइ मणो आसावट्टीहिँ हिअअफलअम्मि | तं तं बालो व विही णिहुअं हसिऊण पम्हुसइ ॥ ५६ ॥ [ यद्यदालिखति मन आशावर्तिकाभिर्हृदयफलके । तत्तद्वाल इव विधिर्निभृतं हसित्वा प्रोञ्छति ॥ ]
हृदयपटे किल यद्यन्मन आशावर्तिकाभिरालिखति । तत्प्रोञ्छति निभृतं बालक इव विधिरसौ विहसन् ॥ ५६ ॥
मनः ( कर्तृपदम् ) । आशावर्तिकाभिः आशारूपाभिस्तूलकाभिर्यद्यत् आलिखति । मनसि नानाविधा आशाः कुर्वत्यहं यद्यत् निश्चिनोमि विधिस्तत्सर्वमतर्कितमेव लुम्पतीति भावः । आशावर्तिकाभिरिति बहुवचनेन - चित्रकरो नानाविधरङ्गार्थं नानाविधास्तूलिका यथा व्यवहरति तथाहमपि विविधा आशा हृदि धारयामीति ध्वन्यते । विहसन्प्रोज्छतीति खेलामुपयातस्य बालकस्य स्वभावचित्रणम् । एवं च - बालको यथापरस्य लाभालाभावविचारयन्नेव पटलिखितं प्रोञ्छति, सा चास्य नैसर्गिकक्रीडेति परिवर्ण्यते, तथैव विधिरपि मे सर्वमनुचिन्तितं मनोरथजातं क्रीडयेवापमाष्टति द्योत्यते । विहसन्नित्यनेन - मम सर्वनाशं परिजानन्नपि विधिर्निर्दुःखमेव प्रवर्तत इति निष्ठुरता ध्वन्यते । निभृतमित्यनेन - ममापरिज्ञातमेव सर्वं कार्यं विफलं भवतीति सहसा नैराश्यं सूच्यते । प्रोञ्छतिपदेनआलेख्यस्य हस्तेनापमार्जनेपि विरूपा अपि तद्गता रङ्गरेखा यथा प्रतीयन्त एव तथा मनोरथवैफल्येपि तेषां स्मृतिर्मां भृशमुद्व्यथयतीति दुःखस्मृतिरभिव्यज्यते । बालक इवेत्युपमया खेलाविलग्नबालकद्दठो यथा दुर्निवारस्तथेदं विधिविलसितमिति विवशता ध्वन्यते। असाविति - समक्षमेव मे, मन्मनोरथानपहन्तीति दुःखकारणता द्योत्यते । मनो यद् ( आ ) ईषदेव लिखतीत्यनेन - आशापरम्पराया हृदये स्थानदानमात्र एव त्वरितमेव मे नैराश्यं भवतीति व्यज्यते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org