________________
७ शतकम् ]
संस्कृतगाथासप्तशती।
निजस्याभावेऽवसन्नं शून्यं यत्खम् आकाशं तस्य मण्डनखरूप ! नभोभूषणेत्यर्थः । पक्षे सत् उत्तमं सपत्नीदत्तनखान्येव मण्डनं यस्य तत्संबुद्धौ । सपत्नीदत्तनखक्षताद्यङ्कितेत्यर्थः । अन्यत्र अन्यद्वीपे नीता रजनी येन, पक्षे अन्यस्या गृहे नीता रजनी येन । दिवसपते है सूर्य ते नमः। विदग्धाया नायिकाया वाच्यः सूर्यरूपोर्थः, परं शब्दशक्तिमूलानुरणनविधया अनुरक्तशरीरादर्थस्यापि प्रतीते यकरूपोर्थोपि प्रतीयते । ततश्च सूर्यप्रसङ्गे नायकमनुकीर्तयन्त्याः प्रमत्तत्वं मा प्रसाटीदिति द्वयोरुपमानोपमेयभावो व्यङ्ग्यत्वेन कल्प्यते। एवं च सूर्यो यथा दूरत एव प्रणम्यते न निकटमुपगम्यते तथा त्वमपि दूरत एव वन्दनीयोसीति नायकं प्रत्युपालम्भश्चरमं व्यङ्ग्यम् । नायकपक्षे 'दिवसपते' इत्यामन्त्रणेन-त्वं मे दिवसकालार्थमेव पतिरसि । रात्रौ तु सपत्नीषु पत्नीत्वं कलयसीति गूढोपालम्भः सूच्यते । पतिपदेनापि-'वं भोजनवस्त्राभ्यां मत्पालनमेव खकर्तव्यं मन्यसे' इत्साक्षेपो द्योत्यते। प्रियालोकेतिपदेन-यत्र रात्रयो नीयन्ते ता एव ते प्रियाः, अहं तु ते चक्षुःशुलमिति सपत्नी प्रत्यसूया व्यज्यते । लोके हि यं प्रति दूरसंबन्धो वा संबन्धविच्छेदो वा सूचयितुमिष्यते तत्र 'त्वं संप्रति प्रणम्योसि' इति वक्रोक्तिविधया प्रोच्यते । तथा चात्रापि प्रणामेन 'प्रत्यहव्यलीकशतैरनुभूतभूरिवेदनाहं साम्प्रतं त्वत्तो दूरमेव तिष्टासामि, धन्यस्त्वं मे खामी' इति गूढकोपोभिव्यज्यते । खण्डिताया उदाहरणे गृहीता सेयं गाथा स. कण्ठाभरणे । प्रवृत्तिशैथिल्यमवलोक्य 'किं गर्भवती भवतीति कान्तेन जिज्ञासिता काचिदाहविवरीअसुरअलेहल पुच्छसि मह कीस गब्भसंभूइम् । ओअत्ते कुम्भमुहे जललवकणिआ वि किं ठाइ ॥ ५४ ।। [विपरीतसुरतलम्पट पृच्छसि मम किमिति गर्भसंभूतिम् ।
अपवृत्ते कुम्भमुखे जललवकणिकापि किं तिष्ठति ॥] विपरीतसुरतलम्पट पृच्छसि मम किमिति गर्भसंभूतिम् ।
अपवृत्ते कुम्भमुखे जललवकणिकापि तिष्ठति किम् ॥ ५४॥ अपवृत्ते अधोमुखीकृते । कणिकापीत्यनेन-जललेशस्य का कथा, कणोपि न तिष्ठति । तथा च-रेतोबिन्दोरप्यसंबन्धे गर्भगन्ध एव कीदृगिति सूच्यते । संभूतिपदप्रयोगेण एवं स्थितौ संभवोपि नास्तीति गूढमाकूतं व्यज्यते।
अभिरुचितेपि दयिते अतिदूरसंबन्धानुरोधेनाप्रवर्तमानां नायिका प्रोत्साहयन्ती दूती प्रसङ्गानुषङ्गेणाह
अच्चासण्ण विवाहे समं जसोआइ तरुणगोवीहिं । वड्डन्ते महुमहणे संबन्धा णिहुविजन्ति ॥ ५५ ॥ - [अत्यासन्नविवाहे समं यशोदया तरुणगोपीभिः । - वर्धमाने मधुमथने संबन्धा नियन्ते ॥]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org